SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ हरिवंश पुराणं । २९६ एकोनविंशः सर्गः । अंगारकोऽपि संग्रामे प्रज्ञः प्रज्ञप्तिविद्यया । निर्बाध्य मे पितुः शीघ्रं राज्यं प्राज्यं जहार सः ||८५ ॥ तिष्ठत्यत्र पिता भ्रष्टः कुंजरावर्त्तपत्तने । नरकुंजर ! चितार्त्तः पिंजरस्थशकुंतवत् ॥८६॥ अन्यदाष्टापदं जातो दृष्ट्वा गिरिसमागतं । चारणश्रमणं नत्वा ज्ञात्वा त्रैलोक्यदर्शिनं ॥८७॥ पिता मे पृष्टवानेवं भगवन् ! दिव्यचक्षुषा । राज्यं पश्यसि मेऽवश्यं स्थाने नाथ ! पुनर्नवा ||८८ || कथितं मुनिना दिव्यचक्षुरुन्मील्य निर्मलं । श्यामायास्तव कन्यायाः पत्या राज्यपुनर्भवः ॥ ८९ ॥ पुनः पृष्ठे कथं नाथ ! ज्ञायत इति स स्फुटं । तेनोक्तं यो जलावर्ते मदेममदवर्त्तनः ॥९०॥ भविता तव कन्याया श्यामायाः पतिरित्यलं । तदादेशात्सरस्यां च द्वौ द्वौ तत्र नभश्वरौ ॥ पित्रा नित्यं नियुक्तौ मे तवास्थातां गवेषणे ॥ ९१ ॥ लब्धस्त्वमचिरेणैव मन्मनोरथसारथिः । जायते जातुचिन्नाथ ! न हि मिथ्या मुनेर्वचः ॥ ९२ ॥ अंगारकेण वृत्तांतो निश्चितः स्यात्सहि द्विषन् । धूमायमानमूर्त्तिर्नो धूमकेतुरिवोत्थितः ॥९३॥ अविद्याकुशलं त्वाऽसौ महाविद्याबलोद्धतः । विद्यावत्या मया मुक्तं कदाचित्स हरेदरिः ॥९४॥ श्यामाया वचनं श्रुत्वा कोऽत्र दोषस्तथाऽस्त्विति । स्मेरः स्मेरमुखीं गाढं प्रियामुपजुगूह सः।। ९५ ।। १ नेयम्पंक्तिः खपुस्तके | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy