________________
हरिवंशपुराणं ।
२९५
एकोनविंशः सर्गः ।
रेमे कामं स कामिन्या कलागुणविदग्धया । तया तदा तदुग्रत्विद् मुखपंकजषट्पदः || ७६ || सा सप्तदशतंत्रीकां वादयंती प्रियाऽमुना । विपंचीतोषिणाऽवाचि वृणीष्व वरमित्यरं ॥ ७७॥ सा प्रणम्य वरं वत्रे दिशायां यदि वा दिवा । मया विनेश ! न स्थेयं स प्रसादवरोऽस्तु मे ॥ ७८ ॥ शृणु कारणमेतस्य वरस्य वरणप्रिय । रिपुरंगारको रंध्रे त्वां हरेदिति मे भयं ॥ ७९ ॥ अस्तीह किंनरोद्गीतं किन्नरोगी तसद्गुणं । वैताढ्यदक्षिणश्रेण्यां नगरं नगरशेखरं ॥ ८० ॥ अर्चिमाली प्रभुस्तत्र खेचराचितशासनः । प्रिया प्रभावती पुत्रौ वेगांती ज्वलनाशनी ॥८१॥ राज्यं प्रज्ञप्तिविद्यां च वितीर्य ज्येष्ठसूनवे । युवराज्यं कनिष्ठाय दीक्षितोऽरिदमांतिके ||८२|| dasमारको राज्ञो विमलायामभूत्ततः । अहं त्वशनिवेगस्य सुप्रभायां प्रभोऽभवम् ||८३॥ राज्यं ज्वलनवेगऽते दत्त्वा मज्जनकाय सः । प्रज्ञप्तियौवराज्यं च सूनवे मुनितामितः ॥ ८४ ॥
१ सोऽन्यदाऽशनिवेशाय मत्पित्रे राज्यमूर्जितं । प्रज्ञप्तियुवराज्यं चांगारकाय सुसूनवे ॥ दत्त्वा जग्राह जैनेंद्रीं द्वीक्षां कर्म विनाशिनीं । नाम्ना चांगारको दुष्टो युवराजोऽन्यदा मम ॥ निर्द्धाध्य पितरं देशात्प्राज्यं राज्यं जहार सः । इति घ पुस्तके ।
२ राजा राज्यं च मत्पित्रे प्रज्ञप्तिं च स्वसूनवे । दत्त्वा जग्राह जैनेंद्रीं दीक्षां कल्याणदायिनीं ॥ नाम्ना चांगारको दुष्टो युवराजोतिगर्वितः । निर्घाठ्याशु नृपं देशात्पापमा राज्यं जहार सः॥ इति क पुस्तके।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org