________________
हरिवंशपुराणं ।
२९४
एकोनविंशः सर्गः आपतंतं स तं हेतुं वंचयन्नतिदक्षिणः । चिक्रीड दंतिदंताग्रे दोलायेखनमाचरन् ॥६३।। वशीकृत्य वशी शीतकरशीकरशोभितं । आरुह्यास्फाल्य हस्तेन हस्तिनं निश्चलं स्थितं ॥४॥ विस्मितः स्वयमेवासौ सशिर कंपमुत्करः । अरण्यरुदितं जातमित्यचिंतयदेककः ॥६५॥ अभविष्यदिनक्रीडा यदि शौर्य पुरे त्वियं । अभविष्यत्ततो लोको मुखरः साधुकारतः ॥६६॥ इति ध्यायंतमेवैनं जहतुर्गजमस्तकात् । सौम्यरूपधरौ धीरौ विद्याधरकुमारकौ ॥६७॥ नीत्वा तं कुंजरावर्त नगरं विजयार्द्धजं । चक्रतुर्वहिरुद्याने सर्वकामिकनामनि ॥६८॥ अशोकानोकहस्याधः शोकक्लेशविवर्जितं । वसुदेवं सुखासीनं नत्वा ताविदमूचतुः ॥६९|| स्वामिनशनिवेगस्य विद्याधरमहेशिनः । शासनात्त्वमिहानीतो जानीहि श्वशुरः स ते ॥७०॥ अर्चिमाली कुमारोऽहं वायुवेगोऽयमित्यमुं । निवेद्य पुरमेकोऽगादस्थादेकोऽत्र पालकः ॥७॥ दिष्टया त्वं वर्द्धसे स्वामिन्नानीतो द्विपमर्दनः । धीरः शूरोऽभिरूपश्च विनीतो नवयौवनः ॥७२॥ नत्वेति ज्ञापितस्तेन स प्रमोदवशो नृपः । अंगस्पृष्टं ददज्जातः परिधानविशेषकः ॥७३॥ ततः समंगलं तेन नगरं स प्रवेशितः । अलंकृतवपुः पौरनरनारीभिरीक्षितः ॥७४॥ प्रशस्ततिथिनक्षत्रमुहूर्तकरणोदये । कन्यामशनिवेगस्य श्यामां श्यामामुवाह सः ॥७५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org