________________
हरिवंशपुराणं ।
२९३
एकोनविंशः सर्गः ।
संप्राप्य प्रातराकंदमुखरो वीक्ष्य भस्मनि । कुमाराभरणं तत्र रुदित्वा मृत इत्यसौ ॥ ५० ॥ पश्चात्तापहतो दुःखी स कृतोचिततत्क्रियः । निंदन मंदोद्यमः स्वं च वंचितोऽहमिति स्थितः ॥५१॥ वसुदेवस्तु निःशंको गृहीत्वा पश्चिमां दिशं । द्विजवेषधरो धीरो योजनानि बहून्ययात् ॥ ५२ ॥ प्रापद्विजयखेटाख्यं पुरं खेटपुरोपमं । क्षत्रियान्वयजेनात्र दृष्टो गंधर्व सूरिणा ।। ५३ ।। सुग्रीव इत्यनुग्राही गांधर्वार्थिजनस्य सः । वीक्ष्यैवाकारमेतस्य वशीकृत इवाऽभवत् ।। ५४ ।। कन्याऽनन्यसमा तस्य सोमा सोमसमानना । अन्या विजयसेनाख्या रूपपारमिते शुभे ॥ ५५|| गंधर्वादिकलापारं प्राप्तयोः स तयोः पिता । गांधर्वे योऽनयोर्जेता स भर्तेत्यमिमन्यते ॥ ५६ ॥ लक्ष्यलक्षणयोगेन यत्र यत्र तयोर्जयः । तत्र तत्र सभामध्ये ते जिगाय स यादवः || ५७ ॥ सुग्रीवेण सतोषेण कन्ये दत्ते ततः शुभे । परिणीय मुदा रेमे प्रासादवरभूमिषु ।। ५८ ।। सूनुं विजयसेनायामुत्पाद्याक्रूरसंज्ञकं । शौरिः शौर्य सहायोऽयादविज्ञातविनिर्गतः ।। ५९ ।। गच्छन्मार्गवशात् क्वाऽपि प्रविवेश महाटवीं । अपश्यच्च सरो रम्यं हंससारसवारिजैः ॥ ६० ॥ नाम्नः स जलावर्तमवगाह्य महासरः । शीतं प्रपाय पानीयं सत्रौ तत्र चिरंतनं ॥ ६१ ॥ जलं मुरजनिर्घोषं समबाहयदुन्नतः । निशस्य रवमुत्तस्थौ तत्र सुप्तो महागजः || ६२ ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org