________________
- २९२
हरिवंशपुराणं।
एकोनविंशः सर्गः। स्नानभोजनवेलाया मा कृथास्त्वमतिक्रमं । अद्य प्रभृति शुद्रांतवनांतेष्वारमाधुना ।। ३७ ॥ इति राजाऽनुजं भक्तमनुशिष्य शिवागृहं । सप्तकक्षापरिक्षेपि तं गृहीत्वा करेऽविशत् ॥ ३८ ॥ स्नात्वा भुक्त्वा स तेनामा कृतरक्षाविधिः स्वयं । तदलक्षितसंकेतो बभूव नृपतिः सुखी॥ ३९ ॥ कुमारोऽपि शिवादेव्याः स वनोद्यानभूमिषु । क्रीडन्नाद्यसुगीताद्यैर्विनोदैश्वावसत्सदा ॥४०॥ एकदा तु शिवादेव्यै समालंभनमेकया। कुब्जया नीयमानं तां खलीकृत्य जहार सः॥४१॥ सा जगाद ततो रुष्टा कुमार ! तव चेष्टितैः । ईदृशैव संप्राप्तो बंधनागारमीदृशं ॥ ४२ ॥ स तां पप्रच्छ शंकासात् कुब्जे ! किमिति जल्पितं । न्यवेदयच्च सा तस्मै यथावन्नृपमंत्रणं ॥४३॥ ततः स्वं वचनं ज्ञात्वा विमनाः स नृपं प्रति । समनश्छद्मना दक्षो निरगानगरात्ततः ॥ ४४ ॥ गत्वैकानुचरो मंत्रसाधनव्याजवानिशि । श्मशाने चैकदेशस्थं तं कृत्वोत्तरसाधकं ॥ ४५ ॥ किंचिद्रे निवेश्यकं मृतकं भूषणैनिजैः । विभूष्य चितिकामध्ये निक्षिप्य वदति स्म सः॥४६॥ आर्यस्तातसमो राजा पोराश्च पिशुनाश्चिरं । सुखं जीवंतु संतुष्टाः प्रविष्टोऽहं हुताशनं ॥ ४७॥ इत्युक्त्वोच्चैः प्रधाव्यासौ प्रदर्याग्निप्रवेशनं । अंतर्धानं गतो दूर भुजिष्योऽपि पुरं ततः ॥ ४८ ॥ वसुदेवस्य वृत्तांते तभृत्येन निवेदिते । स पौरांतःपुरभ्रातृवृष्णिवर्गस्तदा नृपः ॥ ४९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org