________________
हाधिसमुसणं ।
पकोतविंशः सर्गः इत्याकर्ण्य नृपः प्राह पौरप्राग्रहरानिति । ब्रूत वीतभया दुःखं यूयं मह्यं हिता यदि ॥ २४॥ आधिाधिरिवाल्पोऽपि हृदये कृतसंनिधिः । प्राणकारणमप्यन्नं प्रतिहंति न संशयः ॥ २५ ॥ इत्युक्तास्तेन ते प्रोचुरिति विसंभमागताः । दुर्विज्ञप्तिमिमां राजन् निर्बुध्यस्व प्रजाहितं ॥२६॥ वसुदेवकुमारस्य नित्यं निःसरतः पुरात् । रूपदर्शनविभ्रांता विस्मरंति वपुः स्त्रियः ॥ २७ ॥ निर्गमे च प्रवेशे च कुमारस्यान्यदंगनाः । न पश्यंति न शृण्वंति भवंति विकलेंद्रियाः ॥ २८ ॥ तिष्ठतु तावदन्यानि स्वानुष्ठेयानि योषितां । स्तनंधयस्तनादानं रांगांधानां सुविस्मृतं ॥ २९ ॥ अतिरूपतयो धीरः स्वभावस्वच्छमानसः । सर्वोपधाविशुद्धात्मा कुमारः शीलशेखरः ॥३०॥ नृप ! कस्य न विज्ञातस्समस्ते वसुधातले । तथापि किं वयं कुर्मो चित्तोद्भातमभूत्पुरं ॥ ३१॥ यत्र युक्तमाधातुं तत्त्वमेव निरूपय । यथास्वंतं पुरस्येश ! कुमारस्य च जायते ॥ ३२ ॥ तन्निशम्य वचो राजा विचित्य चिरमात्मनि । तथेति प्रतिपद्यैतान विससजे ययुश्च ते ॥ ३३ ॥ पर्यव्य चिरमागत्य प्रणतं भ्रातरं नृपः । आलिंग्यांकं तमारोप्य स्नेहेनाघ्राय मस्तके ॥ ३४ ॥ भ्रांतोऽत्यंत कुमार! त्वं चिरं भ्रांत्वा वनांतरं । विवर्ण! क्षुत्पिपासातै किमित्येवं चिरायितं॥३५॥ वातातपपरिम्लानशिरःशेखरनीरुचिः। अगणय्य वपुःखेदं पर्यटस्यटनप्रियः ॥ ३६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org