________________
हरिबंशपुराणं।
एकोनविंशः सर्गः। भूमौ रथ्या यथा स्त्रीभिस्त्यक्तप्रारब्धकर्मभिः । प्रासादेषु गवाक्षाश्च संछाद्यते दिदृक्षुमिः ॥१२॥ सौभाग्यहृतचेतस्कं बहिरंतरितस्ततः । बभूव पुरमुद्भांतं वसुदेवकथामयं ॥ १३ ॥ अन्यदा पुरवृद्धास्ते समुद्रविजयं नृपं । नत्वा व्यजिज्ञपन्नित्थमुपांशु पिहितांतराः ॥ १४ ॥ अभयं नः प्रदाय त्वं आणु विज्ञापनां विभो । युक्तं वा यदि वाऽयुक्तं बालस्येव वचः पिता॥१५॥ नृपस्त्वं रक्षणान्नृणां भूपो रक्षणतो भुवः । त्वमेव जगतो राजा राजन् ! प्रकृतिरंजनात् ॥१६॥ त्वयि राजनि राजते प्रमदाः सकलाः प्रजाः । अक्षद्रोपद्रवाः पूर्व पितरीव तवाधुना ॥ १७ ॥ उर्वरा सर्वसस्यौधैः शालिव्रीह्यादिभिधरैः । अवग्रहोज्झितैधत्ते प्रतिवर्षमवंध्यतां ॥ १८॥ यथा कृषिस्तथात्यर्थ वणिज्या फलति प्रभो । क्रमविक्रयबाहुल्याद् वणिजां राज्यमूर्जितं ॥१९॥ घटोघ्न्यो घटपूरं हि गोमहिष्युद्धधेनवः । दुहंति सततं दुग्धं प्रभूताः सुहितास्तृणैः ॥ २० ॥ गृहार्थमन्नमत्यल्पं प्रसाधितमयत्नतः । नांतमेति दिनांतेऽपि दानधर्मात्मभुक्तिभिः ॥ २१ ॥ स्वस्वभावविभक्तान्यभावेष्टयाष्टवस्तुनि (?) । त्वत्प्रभावाचिरस्थैर्यः कालो दुंदुभिरेव नः ॥२२॥ एवं सति सुखे दुःखं स्वल्पं तदपि भूपते । न प्रकाशयितुं शक्यं यथात्मोदरपाटनं ॥ २३ ॥
१ प्रस्तुत ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org