SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । २८९ Jain Education International एकोनविंशः सर्गः । 1 अथाह गणनाथाद्यः शृणु श्रेणिक वर्ण्यते । चेष्टितं वसुदेवस्य वसुधाविजयार्द्धजं ॥ १॥ समुद्रविजयो भूभृदष्टानां नवयौवने । भ्रातॄणां राजपुत्रीभिः सत्कल्याणमकारयत् || २ || उवाह धृतिमक्षोभ्यस्ततस्तिमितसागरः । स्वयंप्रभां प्रभाऽनूनां सुनीतां हिमवानपि ॥ ३ ॥ सिताख्यां विजयः ख्यातां प्रियालापां तथाऽचलः । उपयेमे युवा धीरो धारणश्व प्रभावती || ४ || कालिंगीं पूरणश्चार्वीमभिचंद्रश्च सुप्रभां । अष्टौ स्त्रीषु महादेव्यस्त्वष्टानामपि ताः स्मृताः ॥ ५ ॥ कलागुणविदग्धानां तेषामासीत् सयोषितां । अन्योन्यप्रेमबद्धानामनन्यसदृशी रतिः ॥ ६ ॥ तदा देवकुमाराभो वसुदेवो श्रिया श्रितः । शौर्यपुर्यां च चिक्रीड कुमारक्रीडया युतः ॥ ७ ॥ रूपलावण्य सौभाग्यभाग्यवैदग्धवारिधिः । जहार जनचेतांसि कुमारो मारविभ्रमः || ८ ॥ चतुर्णां लोकपालानां वेषमादाय हारिणां । इंद्रादिदिक्षु निक्षुद्रः क्रमात् विनिर्ययौ ॥ ९ ॥ निर्याति सूर्यदीतांगे चंद्रसौम्यमुखांबुजे । तत्र शौर्यपुरे स्त्रीणां भवत्याकुलता परा ॥ १० ॥ संघट्टः पुरनारीणां वसुदेवदिदृक्षया । जायतेऽर्णववेलायां पूर्णचंद्रोदयं यथा ॥ ११ ॥ १९ एकोनविंशः सर्गः । For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy