________________
हरिवंशपुराणं।
अष्टादशः सर्गः। इति स्तुत्वा मुनि नत्वा सम्यक्त्वं प्रतिपद्य सः । स्वर्गी स्वर्गमगान्मार्ग जैनेंद्रमतिवर्तयत् ॥१७०॥ पंचत्रिंशत्सहस्राणि वर्षाण्यतिगमय्य सः । प्रायोपगमनं भेजे षण्मासावधि धीरधीः ॥ १७१ ।। सन्यस्तवपुराहारः स्वपरास्तप्रतिक्रियः । श्रीसौभाग्यनिदानेन स्वं बबंध सुमोहतः ॥ ७२ ॥ निंदितं नाकरिष्यच्चेनिदानं स मुनिस्तदा। अबध्यत तदा शक्या तीर्थकुन्नाम तद्ध्वं ॥१७३॥ स चाराध्य महाशुक्र शक्रतुल्यस्ततोऽभवत् । तत्र तस्थौ सुखं कालं सार्द्ध षोडशसागरं ।।१७४॥ स भुक्तसुरसौख्यस्ते ततः प्रच्युत्य पार्थिव । पार्थिवो वसुदेवोऽयं सुभद्रायामभूत्सुतः ॥ १७५ ॥ इति श्रुत्वा भवान् पूर्वान् वृष्णिभायोसुताः स्वकान् । धमेसंवेगसंपन्नाः संजाता नृसुरास्तथा।।१७६॥ सुप्रतिष्ठं प्रणेम्येयुस्त्रिदशा नृपतिः पुनः । समुद्रविजयं राज्ये साभिषेकमतिष्ठपन् ॥ १७७॥ समये वसुदेवं च समुद्रविजयाय सः । सुप्रतिष्ठस्य पादांते निष्कांतस्तद्भवांतकृत् ॥ १७८ ॥ राज्ये भोजकवृष्णिश्च मथुरायां निधाय सः । उग्रसेनं समग्रेऽयं निग्रंथव्रतमग्रहीत् ॥ १७९ ॥ समुद्रविजयः शिवां विहितपट्टबंधां प्रियां वधूनिवहमुख्यतामधिगमय्य राज्यस्थितिं । स्थिरां स परिपालयत्सहजबंधुभव्यांबुजः प्रतापमभिवर्धयन्नुदयनैर्जिनार्को यथा ॥ १८० ॥
इत्यरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यकृतो समुद्रविजयराज्यलाभवर्णनो नामाष्टादशः सर्गः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org