________________
२८७
हरिवंशपुराणं ।
अष्टादशः सर्गः। नंदिषेणमुनिश्चैष तथाविध इति स्तुतेः । सौधर्मेद्रेण देवास्तं प्रशशंमुः प्रणामिनः ॥१५७।। मुनिधैर्यपरीक्षार्थ तत्रैको विबुधस्तदा । मुनिरूपधरः प्राह नंदिषेणमिति श्रितः ॥ १५८ ॥ बैयावृत्यमहानंद नंदिषेण मुने श्रृणु । व्याधिव्यथितदेहस्य देहि मे किंचिदौषधं ॥ १५९ ॥ इत्युक्तस्स तमाहैवमविकल्पानुकंपया । ददामि वत ते साधो रुचिः कस्मिन्निहाशने ।।१६०।। पूर्वदेशजशालीनामोदनः सुरभिः शुभः । पंचालदेशमुद्गानां सूपः स्वादुरसान्वितः ॥ १६१ ।। हैयंगकीनमुत्तप्तमपरांतभुवां गवां । पयः कलिंगधेनूनां मुसृष्टं व्यंजनांतरं ॥ १६२ ॥ लभ्येत यदि साधु स्यात् श्रद्धा ह्यत्र ममाधिका । इत्युक्तश्चानयामीति जगाम श्रद्धयान्वितः॥१६३ विरुद्धदेशवस्तूनां प्रार्थनेऽप्यविषण्णधीः । गत्वा गोचरवेलायामानीय सहसा ददौ ॥ १६४ ॥ उपभुक्तानपानोऽसौ शरीरांतमेलाविलः । श्रौतस्तेन स्वहस्ताम्यां निशि निर्विचिकित्सया।।१६५ अभग्नोत्साहमालोक्य नंदिषणमनिंदितं । वैयावृत्यकृतं प्रोचे दिव्यरूपधरः सुरः ॥ १६६ ।। यथा देवसभेऽस्तेषीत् भगवंतं मघवानृषे । वैयावृत्योद्यतो लोके तथैव भगवान् भवान् ॥१६७॥ अहो लब्धिरहो धैर्यमहो निर्विचिकित्सता । अहो शासनवात्सल्यमशल्यं तव सन्मुने ॥ १६८॥ अन्येषामपि यद्येषा मनीषा स्यान्मनीषिणां । कालत्रये तपस्यत्र तेषां शासनभक्तता ॥ १६९ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org