________________
हरिवंशपुराणं ।
२८६
अष्टादशः सर्गः ।
सम्यग्दृष्टिरशेषोऽपि मंदग्लानादिरादरात् । पर्युपासनया नित्यमुपचर्यः सुदृष्टिना ॥ १४४ ॥ प्रतीकारसमर्थोऽपि यत्सुदृष्टिमुपेक्षते । व्याधिक्लिष्टमसौ नष्टः सम्यक्त्वस्यापबृंहकः ॥ १४५ ॥ यन्नोपयुज्यते यस्य धनं वा वपुरेव वा । स्वशासनजने तेन तस्य किं बंधुहेतुना ॥ १४६ ॥ तदेव हि धनं तस्य पूर्वा सर्वथा मतं । यद्यस्य शासनस्थानं यथास्वमुपयुज्यते || १४७ ।। शक्तस्योपेक्षमाणस्य सद्दृष्टिजनमापदि । का वा कठिनचित्तस्य जिनशासनभक्तता ॥ १४८ ॥ सम्यक्त्वशुद्धिशुद्धे तु जैने भक्तिविलोपने । पुंसो मिथ्याविनीतस्य का वा दर्शनशुद्धिता ॥ १४९ ॥ बोधिलाभनिमित्ताया दृष्टिशुद्धेर्विबाधने । पुनर्बोधिपरिप्राप्तिर्दुर्लभा भवसंकटे ॥ १५० ॥ बोधिलाभपरिप्राप्तावसत्यां मुक्तिसाधनं । कुतो वृत्तमभावेऽस्य कुतो मुक्तिस्तदर्थिनः ॥ १५१ ॥ मुक्त्यभावे कुतः सौख्यमनंतमनपायि च । सौख्याभावे कुतः स्वास्थ्यं स्वास्थ्याभावे कुतः कृती १५२ अतः सर्वात्मना भाव्यं यथास्वं स्वहितैषिणा । वैयावृत्योद्यतेनाऽत्र यतिना गृहिणा तथा ॥ १५३॥ शरीरं दर्शनज्ञानं चारित्रं परमं तपः । वैयावृत्यकृता सर्व स्थापितं हि परात्मनोः ।। १५४ ॥ शासनस्थितिविद् विद्वानुपकुर्वन् परं स्वयं । निरपेक्षोपकारो वः परात्मलघुमोक्षभाग् || १५५।। वैयावृत्यप्रवृत्तो यः शासनार्थातिभावितः । नस शक्यः सुरै रोद्धुं किं पुनः क्षुद्रजंतुभिः || १५६ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org