________________
२८५
हरिवंशपुराणं ।
अष्टादशः सर्गः। दुर्भाग्याग्निशिखालीढः स्थाणुरेष मणीमयः । मर्नुमिच्छन्पतंगाभो वैभारे साधुभिर्वृतः ॥१२॥ निंदित्वात्मानमाकर्ण्य धर्माधर्मफलं ततः। प्रावाजी गुरुपादांते शांतः संख्याख्ययोगिनः॥१३३।। चचार गुरुसंदेशादाशापाशविनाशनः । तपोऽन्यदुश्चरं चारुचारित्रज्ञानदर्शनः ॥ १३४ ॥ ननंद नंदिषेणाख्यस्तपसोत्पन्नलब्धिमिः । एकादशांगभृत्साधुः सोढाशेषपरीषहः ॥ ३५ ॥ उपवासविधिर्यो यः शासनेऽन्यातिदुष्करः। तस्य धैर्यवतः साधोः स सर्वः सुकरोऽभवत् ।।१३६॥ आचार्यग्लानशैक्षादिदशभेदमुदीरितं । वैयावृत्यतपश्चक्रे सविशेषमसावृषिः ॥ १३७ ॥ महालब्धिमतस्तस्य वेयात्योपयोगि यत् । वस्तु तचिंतितं हस्ते भेषजाद्याशु जायते ॥ १३८ ।। तपो वर्षसहस्राणि बहूनि तपतोऽस्य च । वैयावृत्यं तपः शक्रः शशंस सुरसंसदि ॥ १३९ ॥ काले संप्रति साधूनां वैयावृत्यं करोति यः। नंदिषेणपरो जातो जंबूद्वीपस्य भारते ॥ १४०॥ यद्येन चिंतितं पथ्यमनुल्लाघसुदृष्टिना | तत्तस्य क्षिप्रमथूणं स संपादयति क्षमी ॥ १४१ ।। प्रासुकद्रव्य योगेन वैयावृत्योद्यतस्य हि । संयतस्यापि नो बंधो निर्जरैव तु जायते ॥ १४२ ॥ धर्मसाधनमायं हि शरीरमिह देहिनां । तस्य धारणमाधेयं यथाशक्ति च शासने ॥ १४३ ॥
१ घृत इति ख पुस्तके । २ अस्माद। तपोलब्धिप्रभावेन वैयावृत्यं करोति सः' इति ख पुस्तकेऽधिकः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org