________________
हरिवंशपुराणं ।
२८४
अष्टादशः सर्गः। अंतर्वत्नी प्रसूता सा पूर्वनंदयशःसुतं । धनमित्रं तथा योग्यं संत्यज्य तपसि स्थिता ॥१२०॥ पुत्रान् सिद्धिशिलारूढान् प्रायोपगमनस्थितान् । वंदित्वा पुत्रमातृत्वमावृणोत्स्नेहमोहिता॥१२१॥ स्नेहगहरमोहिन्यौ भगिन्यौ च तदिच्छतां । सोदरत्वं भवेऽन्यत्र किंवा स्नेहस्य दुष्करं ॥१२२॥ माता सुताः समाराध्य देवा भूत्वाऽच्युतेऽखिलाः। द्वाविंशतिसमुद्रांतं कालं भुक्त्या परं सुख।।१२३।। अवतीय ततो भूमि देवीदुहितृदेहजाः। तवैव भूप! चित्रा हि परिणामवशाद्गतिः ।। १२४ ॥ बभाण भगवानंते वसुदेवभवांतरं । प्रणिधानपरोत्कर्म नरदेवसभांतरे ॥ १२५ ॥ कश्चिद्भवाब्धिदुःखोमिनिमग्नोन्मनताकुलः । प्राणी प्राप युगच्छिद्रं कीलवत् नृभवांतरं ॥ १२६॥ मागधाभिधदेशेऽसौ शालिग्रामेऽग्रजन्मनोः । अभूदुर्विधयोस्तोकं स्तोकं चोपनयत्सुखं ॥१२७॥ गर्भस्थेऽपि पिता तस्मिन्नर्भके मृतमातृकः । दुर्भगस्याष्टवर्षस्य निर्भा मातृष्वसा शुचा ।।१२८॥ पुरे राजगृहे सोऽथ मातुलस्य गृहेऽवसत् । भर्तुःस्वस्रीय इत्येष पितृष्वस्रानुपालितः ॥ १२९ ॥ मलग्रस्तशरीरोऽसावुनगंधोजपोतवत् । विकीर्णशीर्णकेशाग्रः कुचेलः पिंगलेक्षणः ॥ १३० ॥ दुहितातुलस्यासौ वांछन् दमरकश्रुतेः । ताभिर्जुगुप्सुभिर्दुःखी स्वगृहाद्विनिघाटितः ॥ १३१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org