________________
हरिवंशपुराण।
२८३
अष्टादशः सर्गः। आराध्याराधनां सम्यक् सुविशालमगाद् गुरुः । शिष्यो वर्षसहस्राणि पंचाशत् स तपोऽतपत्॥१०८॥ उदियाय स तत्रैव सुविशाले विशालधीः । स्थिति समानयन्मान्यामष्टाविंशतिसागरैः ॥१०९॥ अहमिंद्रसुखं भुक्त्वा सोऽवतीय ततो नृपः । संजातोऽधकवृष्णिस्त्वमहं तु भवतो गुरुः ॥११०॥ अप्राक्षीत्पूर्वजन्मानि दुःखितः क्षितिपः पुनः । स्वपुत्राणां दशानां च केवली च जगाविति।।१११॥ सद्भद्रिलपुरे राजा नाम्ना मेघरथोऽभवत् । भायों तस्य सुभद्राख्या तयोईढरथः सुतः ॥११२॥ इभ्यो राजसमस्तस्य भार्या नंदयशाः सुते । सुदर्शना च सुज्येष्ठा धनदत्तस्य सूनवः ॥११३॥ धनश्च जिनदेवी च पालांतास्ते त्रयो मताः । अहंद्दासः प्रसिद्धश्च जिनदासस्तथा परः॥११४॥ अर्हद्दत्त इति ख्यातो जिनदत्तः परः स्मृतः। प्रियमित्रःप्रतीतोऽन्यस्तथा धर्मरुचिध्वनिः ॥१५॥ सुमंदरगुरोः पार्श्वे प्रवव्राज नरेश्वरः । धनदत्तोऽपि पुस्तैनेवभिः सह दीक्षितः ॥११६॥ सुदर्शनार्यिकापार्श्वे सुभद्रा च सुदर्शना । सुस्येष्ठा च तपो ज्येष्ठं सहैव प्रतिपेदिरे ॥११७॥ धनदत्तो गुरुश्चैव वाराणस्यां नृपस्तथा । केवलज्ञानमुत्पाद्य विहृता वसुधा क्रमात् ॥११८॥ सप्तभिः पंचभिः पूजा वर्षेादशभिश्च ते । अंते सिद्धशिलारूढाः सिद्धा राजगृहे पुरे ॥११९॥
१ षष्ठद्मवेयके विशालनाम्नि विमाने । २ श्रेष्ठी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org