________________
हरिवंशपुराणं ।
२८२
अष्टादशः सर्गः ।
दुष्कर्मोपशमाल्लब्ध्वा तन्मानुष्यं कथंचन । यत्नो भवविरक्तेन विधेयो मुक्तये विदा ॥ ९५ ॥ अथात्रावसरेऽपृच्छन्नत्वा केवलिनं भवान् । पूर्वानंधकवृष्णिः स्वानित्युवाच च सर्ववित् ॥९६॥ साकेते रत्नवीर्यस्य राज्ञो राज्ये जिताहिते । तीर्थे वृषभनाथस्य वर्तमाने महोदये ॥ ९७ ॥ श्रेष्ठी सुरेंद्रदत्तोऽभूद्वात्रिंशत्कोटिभिर्धनी । तस्य जैनस्य मित्रं च रुद्रदत्तोऽभवद्विजः ॥ ९८ ॥ तिथिपर्वचतुर्मासी जिनपूजार्थमस्य सः । दत्वार्थे द्वादशाब्दांतं वणिज्यातो वणिज्यया ॥ ९९ ॥ सद्यूतवेश्याव्यसनी विनाश्य द्रविणं द्विज: । चौर्यगृहीतमुक्तोऽगादुल्कामुखवनं खलः || १०० ॥ स हि मुष्णन् सह व्याधैर्लोकं व्याधिनिभो हतः । सेनान्या श्रेणिकेनागान्नरकं रौखं ततः ॥ १०१ ॥ देव स्वस्य विनाशेन त्रयस्त्रिंशदुदन्वतां । समं कालं महादुःखं प्राप्योद्वर्त्याभ्रमद् भवे ॥ ०२ || पापस्योपशमात्पञ्चादुदभूद्गजपुरे पुरे । कापिष्ठलायनाभिख्यादनुमत्यामिह द्विजः ॥१०३॥ निःश्रीगौतमनामाऽसौ कृतमातृपितृक्षयः । साधुं भुंजानमद्रासीद्विक्षार्थी पर्यटन् वदुः ॥ १०४ ॥ समुद्रदत्तनामानमनुगम्य तमाश्रमे । जगादात्मसमं यूयं कुरुत्वं मां बुभुक्षितं ।। १०५ ।। भव्य सत्त्वमसौ बुद्ध्वा दीक्षां तस्मै ददौ गुरुः । पापं वर्षसहस्रेण विघ्नकृत्सोऽप्यशीशमत् ॥ १०६ ॥ स श्रीगौतमसंज्ञाकः प्राप्तोऽक्षीणमहानसं । पदानुसारिणीं लब्धिं बीजबुद्धिसुरर्द्धिमान् ॥ १०७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org