________________
हरिवंशपुराणं ।
२८१
अष्टादशः सर्गः ।
पर्याप्तयः षडाहारशरीरेंद्रियगोचराः । आनप्राणमनोभाषाभेदैस्ताः परिभाषिताः ।। ८३ ।। स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रं तथैव तत्। इंद्रियं पंचकं प्रोक्तं स्थावरत्रसगोचरं ॥ ८४ ॥ लब्धिश्चैवोपयोगश्च भावेंद्रियमिहोदितं । द्रव्येंद्रियं तु निर्वृत्तिं सहोपकरणैर्मतं ।। ८५ ।। स्पर्शनं नैकसंस्थानं रसनं तु क्षुरप्रवत् । घ्राणं चानुकरोत्येवमतिमुक्तकचंद्रिकां ॥ ८६ ॥ चक्षुर्मसूरमन्वेति श्रोत्रं तु यवनालिकां । स्वाकारेणेति संस्थानं तद्द्रव्येंद्रियगोचरं ॥ ८७ ॥ धनुःशतानि चत्वारि स्पर्शनदियगोचरः । एकेंद्रियस्य चोत्कृष्टस्ततो यावदसंज्ञिनां ॥ ८८ ॥ अष्टौ षोडश संख्यातो द्वात्रिंशद् द्विगुणान्यपि । चतुःषष्टिः शतं दंडा घ्राणांते द्विरसंज्ञिनः ।। ८९ ।। चतुःपंचरता सार्द्धमेकोनत्रिंशदीक्षते । शतानि योजनानां तु चक्षुषा चतुरिंद्रियः ॥ ९० ॥ योजनानां शतान्येकन्यूनं षष्टिः सहाष्टभिः । असंज्ञिचक्षुर्विषयो योजनं श्रोत्रगोचरः ॥ ९१ ॥ स्पर्श रसं च गंधं च नवयोजनमात्रगं । संज्ञी यथास्वमादत्ते शब्द द्वादशयोजनं ।। ९२ ।। सहस्रैः सप्तभिः सत्रा चत्वारिंशत्सहस्रकैः त्रिषष्टया च द्विशत्या च योजनैश्चक्षुषेक्षते ॥ ९३ ॥ इत्यनेकविकल्पेऽस्मिन् संसारे सारवर्जिते । मोक्षसाधनतः सारं मानुष्यं दुर्लभं च तत् ॥ ९४ ॥ १-४७२६३ योजनानि चक्षुषः विषयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org