SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । २८० अष्टादशः सर्गः । भौमा मसूरसंस्थाना जीवा आप्यास्तृणांबुवत् । तैजसाः सूचि संस्थानाः पताकावच्च वायुजाः॥ ७० ॥ बहुसंस्थानभाजस्तु वनस्पतिभवांगिनः । विज्ञेया हुंडसंस्थाना विकलेंद्रियनारकाः ॥ ७१ ॥ षट्संस्थानभृतो मर्त्यास्तिर्यंचः कथितास्तथा । समेन चतुरस्रेण संस्थानेन युताः सुराः ॥ ७२ ॥ देहः सूक्ष्मनिगोदस्य भागोऽसंख्येय अंगुलः । अपर्याप्तस्य जातस्य तृतीयसमयेऽल्पशः ॥ ७३॥ स एवैकेंद्रियादीनां देहः स्यादल्पमानतः । पंचेंद्रियावसानानां सूक्ष्मोदारप्रभेदिनां ॥ ७४ ॥ सहस्रयोजनं पद्मं सगव्यूतं प्रमाणतः । समस्तैकेंद्रियोत्कृष्टदेहमानमिदं मतं ।। ७५ ।। उत्कर्षाद् द्वीद्रियेषु स्यात् शंखो द्वादशयोजनः । त्रींद्रियोंगी त्रिगव्यूतो भ्रमरो योजनांगकः ॥७६॥ सहस्रयोजनो मत्स्यः सपर्याप्तः स्वयंभुवः । सिक्थप्रमाणकोऽत्यल्पः प्राणी जलचरः स्मृतः ॥७७॥ संमूर्छन जसत्त्वानां खजलस्थलचारिणां । तिरश्रां तु वितस्तिः स्यादपर्याप्त शरीरिणां ॥ ७८ ॥ अपर्याप्ताः पुनः सच्वा ये जलस्थलगर्भजाः । संमूर्च्छनोत्थपर्याप्ताः खगा जलधरास्तथा ।। ७९ ।। धनुः पृथक्त्वमुत्कर्षात् खगाश्चापि च गर्भजाः । पर्याप्ताश्चाप्यपर्याप्ता देहमानं वहते ते ॥ ८० ॥ जलगर्भजपर्याप्ताः स्युः पंचशतयोजनाः । त्रिपल्या युर्नृतिर्यंचास्त्रिगव्यूताः प्रमाणतः ॥ ८१ ॥ पंचचापशतोत्सेधा उत्कर्षान्नारकाः सुराः । पंचविंशतिचापाः स्युरायुस्तेषां पुरा ययौ ॥ ८२ ॥ 1 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy