________________
२७९
हरिवंशपुराणं।
अष्टादशः सर्गः। ता वनस्पतिकायेषु दश षट् विकलेंद्रिये । द्विसप्तद्विश्चतस्रस्तास्तिर्यग्नारकनाकिनां ॥ ५८ ॥ द्वाविंशतिपृथिव्यंगा लक्षाः सप्तांबुवायुजाः। तेजस्कायिकजीवानां त्रिलक्षाः कुलकोटयः ॥५९।। वनस्पतिजलक्षास्ता अष्टाविंशतिरीरिताः । द्वित्रींद्रियेषु सप्ताष्टौ चतुरिंद्रियजा नव ॥ ६० ॥ अर्धत्रयोदश प्रोक्ता लक्षा जलचरेष्वपि । पक्षिषु द्वादशैव स्युश्चतुष्पात्सु दशांगिषु ।। ६१ ॥ नवोर परिसर्येषु मनुजेषु चतुर्दश । नारकामरभेदेषु विंशतिः पंच षड् युताः ॥ ६२॥ कोटीकोटी च लक्षाश्च नवतिर्नवभिः सह । पंचाशच्च सहस्राणि कुलकोट्यः समासतः॥ ६३ ॥ द्वाविंशतिसहस्राणि वत्सराणि खरक्षितेः । आयुर्मदुपृथिव्यास्तु द्वादश प्राणधारिणां ।। ६४ ॥ सप्ताप्कायिकजीवानां त्रीणि वायुमयांगिनां । अहोरात्रास्त्रयस्तेजोमयानां समये मताः॥६५॥ दशवर्षसहस्राणि वनस्पतिमयांगिनां । द्वादश द्वींद्रियाणां च वर्षाण्यायुरुदीरितं ॥ ६६ ॥ दिनान्येकोनपंचाशत्त्रींद्रियाणां प्रकीर्तितं । चतुरिंद्रियजीवानां षण्मासाः परमायुषः ॥ ६७ ॥ द्वासप्ततिसहस्राणि वर्षाण्यपि च पक्षिणां । द्विचत्वारिंशदब्दानां सहस्राण्यहिदेहिनां ॥ ६८॥ नव पूर्वांगमानं स्यादुरसा परिसर्पिणां । पूर्वकोटी मनुष्याणां मत्स्यानां चापि जीवितं ॥ ६९॥
१ सहस्राण्यहदेहिनां इति ख पुस्तके।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org