SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ २७८ हरिवंश पुराण। अष्टादशः सर्ग पंचधाऽणुव्रतं प्रोक्तं त्रिविधं च गुणवतं । शिक्षाव्रतं चतुर्भेदं धर्मोऽयं गृहिणां स्मृतः॥४५॥ हिंसादेर्देशतो मुक्तिरणुव्रतमुदीरितं । दिग्देशानर्थदंडेभ्यो विरतिश्च गुणवतं ॥ ४६॥ सामायिक त्रिसंध्यं तु प्रोषधातिथिपूजनं । आयुरते च सल्लेखः शिक्षाव्रतमितीरितं ॥४७॥ मांसमद्यमधुद्यूतक्षीरिवृक्षफलोज्झनं । वेश्याबधरतित्याग इत्यादिनियमो मतः॥४८॥ इदमेवेतितत्त्वार्थश्रद्धानं ज्ञानदर्शनं । शंकाऽऽकांक्षाजुगुप्सान्यमतशंसास्तवोज्झनं ॥४९॥ तथोपगृहनं मार्गभ्रंशिनां स्थितियोजनं । हेतवो दृष्टिसंशुद्ध वात्सल्यं च प्रभावना ॥५०॥ साक्षादभ्युदयोपायः पारंपर्येण मुक्तये । गृहिधर्मोऽत्र मौनस्तु साक्षान्मोक्षाय कल्पते ॥५१॥ स धर्मो मानुषे देहे प्राप्यते नान्यजन्मनि । मानुषस्तु भवो दुःखाल्लभ्यते भवसंकटे ॥ ५२ ॥ स्थावरत्रसकायेषु चतुर्गतिषु देहिनः । कर्मोदयवशात्क्लेशानश्नंतः पर्यटत्यमी ॥ ५३॥ पृथिव्यप्तेजसा काये मरुतां च वनस्पतेः । स्पर्शनेंद्रियो जीवो दीर्घकालमटाट्यते ॥ ५४॥ संति चानंतभेदास्ते जीवाः कर्मकलंकिताः । येऽत्र सत्त्वमनापन्नाः कुनिगोदनिवासिनः॥५५॥ कुयोन्यशीतिलक्षासु चतुरभ्यधिकास्वमी । अनेककुलकोटीषु बभ्रम्यते तनूभृतः ॥५६॥ प्रत्येक सप्तलक्षाः स्युर्नित्येतरनिगोदयोः । पृथिवीवायुतेजोऽभाकायेष्वपि तथैव ताः॥ ५७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy