________________
२७७
हरिवंशपुराणं ।
अष्टादशः सर्गः। तद्वंदनार्थमिद्रौघाः सौधर्माद्याश्चतुर्विधैः । देवैः सह समागत्य तेऽर्चयित्वा ववंदिरे ॥ ३२ ॥ वृष्णिरप्यागतो भक्त्या पुत्रदाराबलान्वितः । संपूज्यानम्य सौम्यं तं निजभूमावुपाविशत् ॥३३॥ सावधाने स्थिते धर्मदत्तकर्णे कृतांजलौ । जगजने जगादेत्थं सुप्रतिष्ठमुनीश्वरः ॥ ३४ ॥ धर्मात्त्रिवर्गनिष्पत्तिस्त्रिषु लोकेषु भाषिता । ततस्तामिच्छता कार्यः सततं धर्मसंग्रहः ॥ ३५ ॥ धर्मो धामनि संधत्ते शमोधार शरीरिणां । निर्मितो वाङ्मनःकायकमेभिः शुभवृत्तिभिः॥३६॥ धर्मो मंगलमुत्कृष्टमहिंसासंयमस्तपः । तस्य लक्षणमुद्दिष्टं सदृष्टिज्ञानलक्षितं ॥ ३७॥ धर्मो जगति सर्वेभ्यः पदार्थेभ्य इहोत्तमः । कामधेनुः स धेनूनामप्यनूनसुखाकरः ॥ ३८ ॥ धर्म एव परं लोके शरणं शरणार्थिनां । मृत्युजन्मजरारोगशोकदुःखातापिनां ॥ ३९ ॥ विश्वाभ्युदयसौख्यानां मनुजामरवर्तिनां । धर्म एव मतो हेतुर्निश्रेयससुखस्य च ॥ ४०॥ नमिना भाषितो धर्मः समन्वंतरवर्तिना । एकविंशेन नाथेन का तीर्थस्य सांप्रतं ॥४१॥ पंचकल्याणपूजानां स्वर्गावतरणादिषु । भाजनं यो बभूवात्र तेन धर्मोऽयमीरितः ॥ ४२ ॥ महाव्रतानि साधूनामहिंसा सत्यभाषणं । अस्तेयं ब्रह्मचर्य च निर्मूच्छा चेति पंचधा ।। ४३ ॥ गुप्तिश्च त्रिविधा प्रोक्ता पंचधा समितिस्त्विदं । सर्वसावद्ययोगस्य प्रत्याख्यानं मतं सतः ॥४४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org