________________
हरिवंशपुराण।
२७६
अष्टादशः सर्गः।
जातः सुखरथस्तस्माद्दीपनः कुलदीपनः । सूनुः सागरसेनोऽस्मान्सुमित्रो वप्रथुस्ततः॥ १९ ॥ विंदुसारः सुतस्तस्माद्देवगर्भस्तदर्भकः । ततः शतधनुर्वीरो धनुर्धरपुरःसरः ॥ २० ॥ क्रमात शतसहस्रेषु व्यतिक्रतिषु राजसु । जातो निहतशत्रुः स सुतः शतपतिनृपः ॥ २१ ॥ जातो बृहद्रथो राजा ततो राजगृहाधिपः । तस्य सूनुर्जरासंधो वशीभूतवसुंधरः ॥ २२ ॥ स रावणसमो भूत्या त्रिखंडभरताधिपः । नवमः प्रतिशत्रूणां सुरश्रीसदृशौजसां ॥ २३ ॥ मध्ये कालिंदसेनाख्या महिषी महिषीगुणा । तनयाः सनयास्तस्य ते कालयवनादयः ॥२४॥ अपराजित इत्याद्या भ्रातरश्चक्रवर्तिनः । हरिवंशमहावृक्षशाखाया फलितात्मनः ॥ २५ ॥ एकस्या एकवीरोऽयं धारको धरणीपतिः । बहुविद्याधरेंद्राणां दक्षिणश्रेण्युपाश्रितां ॥ २६ ॥ संहतिं नृपसिंहोऽसौ शास्ति राजगृहे स्थितः । उत्तरापथभूपालाः दक्षिणापथभूभृतां ॥ २७ ॥ पूर्वापरसमुद्रांता मध्यदेशाश्च तद्वशाः । भूचरैः खेचरैः सर्वैः शेखरीकृतशासनः ॥ २८ ॥ चक्रवर्तिश्रियो भर्ता विभत्तौंद्रस्य विभ्रमं । जातु शौर्यपुरोद्याने गंधमादननामनि ॥ २९ ॥ रात्रौ प्रतिमया तस्थौ सुप्रतिष्ठः प्रतिष्ठितः । पूर्ववैराद्यतेस्तस्य चक्रे यक्षः सुदर्शनः ॥ ३० ॥ अग्निपातं महावा मेघवृष्टयादिदुःसहं । उपसर्ग स जित्वाऽऽप केवलं घातिघातकृत् ।। ३१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org