________________
२७५
हरिवंशपुराणं।
अष्टादशः सर्गः। सुतो नरपतिस्तस्माद्दभूद् भूवधूपतिः । यदुस्तस्मिन् भुवं न्यस्य तपसा त्रिदिवं गतः॥७॥ शूरश्चापि सुवरिश्च शूरौ वीरौ नरेश्वरौ । स तौ नरपती राज्ये स्थापयित्वा तपोऽभजत् ॥८॥ शूरः सुवीरमास्थाप्य मथुरायां स्वयं कृती। स चकार कुशयेषु पुरं शौर्यपुरं पुरं ॥९॥ शूराश्चांधकवृष्ण्याद्याः नरादुदभवन् सुताः । वीरा भोजनकवृष्ण्याद्याः सुवीरान्मथुरेश्वरात् ॥१०॥ ज्येष्ठपुत्र विनिक्षिप्तक्षितिभारौ यथायथं । सिद्धौ शूरसुवीरौ तौ सुप्रतिष्ठेन दीक्षितौ ॥ ११ ॥ आसीदंधकवृष्णश्च सुभद्रा वनितोत्तमा । पुत्रास्तस्या दशोत्पन्नास्त्रिदशामा दिवश्च्युताः॥१२ ॥ समुद्रविजयोऽक्षोभ्यस्तथा स्तिमितिसागरः । हिमवान् विजयश्चान्योऽचलो धारणपूरणौ ॥१३॥ अभिचंद्र इहाख्यातो वसुदेवश्च ते दश । दशार्हाः सुमहाभागाः सर्वेऽप्मन्वर्थनामकाः ॥ १४॥ कुंती मद्री च कन्ये द्वे मान्ये स्त्रीगुणभूषणे । लक्ष्मीसरस्वतीतुल्ये भगिन्यौ वृष्णिजन्मनां ॥१५॥ राज्ञो भोजकवृष्णेयों पत्नी पद्मावती सुतान् । उग्रसेनमहासेनदेवसेनानसूत सा ॥ १६ ॥ सुवसोस्त्वभवत्सूनुः कुंजरावर्त्तवर्तिनः । वृहद्रथ इति ख्यातो मागधेशपुरेऽवसत् ॥ १७ ॥ तस्मादप्यंगजो जातस्ततो दृढेरथोग्रजः । तस्मान्नरवरो जज्ञे ततो दृढरथस्ततः ॥ १८ ॥
१ दृढरथोंगजः इति ख पुस्तके।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org