________________
२७३
हरिवंशपुराणं ।
सप्तदशः सर्गः। तत्त्ववादिनमक्षुद्रं नारदं जितवादिनं । कृत्वा ब्रह्मरथारूढं पूजयित्वा जना ययुः ॥१५६॥ पर्वतोऽपि खलीकारं प्राप्य देशान् परिभ्रमन । दुष्टं द्विष्टं निरैक्षिष्ट महाकायमहासुरं ॥ १५७ ॥ ततस्तस्मै पराभूति पराभूतिजुषे पुरा । निवेद्य तेन संयुक्तः कृत्वा हिंसागमं कुधीः ॥ १५८ ।। लोके प्रतारको भूत्वा हिंसायझं प्रदर्शयत् । अरंजयज्जनं मूढं प्राणिहिंसनतत्परं ॥ १५९ ॥ मृत्वा पापोपदेशेन पापशापयशान्मृतः । सेवामिव वसोः कुर्वन् पर्वतो नरके पतत् ॥ १६० ॥ स्थापिता वसुराज्येऽष्टौ ज्येष्ठानुक्रमशः क्रमात् । स्वल्पेरेव दिनेमृत्यु सूनवोऽपि वसोयेयुः ॥१६॥ ततो मृत्युभयात्त्रस्तः सुवसुः प्रपलायितः । गत्वा नागपुरेऽतिष्ठन्मथुरायां उद्ध्वजः ।। ६२ ।।
कष्टं ख्यातिमवाप्य सत्यजनितां पापादधोगाद्वसुः
पापं पर्वतकोऽभिमानवशगस्तस्यैव पश्राद् ययौ । सम्यग्दृष्टिदिवाकराख्यखचरं लब्ध्वा सखायं पुनः
क्षिप्त्वा पर्वतदुर्मतं कृतितया स्वर्ग गतो नारदः ॥ १६३ ॥ धर्मः प्राणिदया दयाऽपि सततं हिंसाव्युदासो मनो___ वाक्कायैर्विरतिर्वधात्प्रणिहितैः प्राणात्ययेऽप्यात्मनः ।
१८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org