________________
हरिवंशपुराणं ।
२७२
नसदृशः सर्गः ।
प्राणिघातकृतः स्वर्गः कुतःस्याद्योजकादयः । याज्यस्य स्वर्गगार्मित्वे दृष्टांतत्वं गता यतः || १४४ ॥ धर्ममेव शर्मात्यै कर्मयाज्यस्य जायते । नापथ्यं शिशोदत्तं मात्राऽपि स्यात्सुखाप्तये || १४५ || परिषत्प्रावृषि स्फूर्जद्वचोवज्रमुखैरिति । भिवा पर्वतदुःपक्षं स्थिते नारदनीरदे || १४६ || साधुकारों मुहुर्दत्तस्तस्मै धर्मपरीक्षकैः । सलौकिकैः शिरःकंप स्वांगुलिस्फोटनिस्वनैः || १४७॥ राजोपरिचरः पृष्टस्ततः शिष्टैर्बहुश्रुतैः । राजन् यथाश्रुतं ब्रूहि त्वं सत्यं गुरुभाषितं ॥ १४८ ॥ मूढसत्यविमूढेन वसुना दृढबुद्धिना । स्मरताऽपि गुरोर्वाक्यमिति वाक्यमुदीरितं ॥ १४९ ॥ युक्तियुक्तमुपन्यस्तं नारदेन समा जनाः । पर्वतेन यदत्रोक्तं तदुपाध्याय भाषितं ॥ १५० ॥ वाङ्मात्रेण ततो भूमौ निमग्नः स्फटिकासनः । वसुः पपात पाताले पातकात् पतनं खेल || १५१ ।। पातालस्थितकायोऽसौ सप्तमीं पृथ्वीं गतः । नरके नारको जातो महारौरवनामनि ॥। १५२ ।। हिंसानंद मृषानंद रौद्र ध्यानाविलो वसुः । जगाम नरकं रौद्रं रौद्रध्यानं हि दुःखदं ॥ १५३ ॥ प्रत्यक्षं सर्वलोकस्य पाताले पतिते वसौ । तदाकुलः समुत्तस्थौ हा हा धिग्धिगिति ध्वनिः ॥ १५४ ॥ लब्ध्वा सत्यफलं सद्यो निर्निदुर्नृपतिं जनाः । पर्वतं च निराचक्रुः खलीकृत्य खलं पुरात् ।। १५५ ।।
१. धुवं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org