________________
हरिवंशपुराणं ।
२७१
सप्तदशः सर्गः ।
१३१ ॥
देशकं मुक्तिमार्गस्य शोषकं भववारिधेः । अनंतज्ञान सौख्यादिमहेशाख्यं महेश्वरं ॥ ब्रह्माणं विष्णुमीशानं सिद्धं बुद्धमनामयं | आदित्यवर्णवृषभं पूजयंति हितैषिणः ॥ १३२ ।। ततः स्वर्गसुखं पुंसां ततो मोक्षसुखं ध्रुवं । ततः कीर्त्तिस्ततः कांतिस्ततो दीप्तिस्ततो धृतिः ॥१३३॥ पिष्टेनापि न यष्टव्यं पशुत्वेन विकल्पितात् । संकल्पादशुभात्पापं पुण्यं तु शुभतो यतः || १३४ || यो नामस्थापनाद्रव्यैर्भावेन च विभेदनात् । चतुर्धा हि पशुः प्रोक्तस्तस्य चित्यं न हिंसनं || १३५।। यदुक्तं मंत्रतो मृत्योर्न दुःखमिति तन्मृषा । न चेद् दुःखं न मृत्युःस्यात् स्वस्थावस्थस्य पूर्ववत्। १३६॥ पादनासाधिरोधेन विना चेन्निपतेत्पशुः । मंत्रेण मरणं तत्स्यादसंभाव्यमिदं पुनः ॥ १३७ ॥ सुखासिकाऽपि नैकांतान्मर्जुमंत्र प्रभावतः । दुःखिताप्यारटज्जं तोर्ग्रहार्त्तस्य निरीक्ष्यते ॥ १३८ ॥ सुसूक्ष्मत्वादवध्योऽयमात्मेति यदुदीरितं । तन्न स्थूलशरीरस्थः स्थूलोऽपि सम्भवेद्यतः ।। १३९ || प्रदीपवदयं देही देहाधारवशाद् यतः । सूक्ष्मस्थूलतया याति स्वसंहारविसर्पणं ॥ १४० ॥ अनीदृशस्तु संसारी शरीरानंतवेदकः । सूक्ष्म एष कथंकारं सुखदुःखमवाप्नुयात् ॥ १४१ ॥ अतः शरीरबाधायां मंत्रतंत्रास्त्रयोगतः । बाधनं नियमादस्य देहमात्रस्य देहिनः ॥ १४२ ॥ म्रियमाणोऽतिदुःखेन चक्षुरादिभिरिंद्रियैः । वियुज्यते स्वयं तेन कोऽन्यस्तेषां वियोजकः ॥ १४३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org