________________
हरिवंशपुराणं।
२७०
सप्तदशः सर्गः । शब्दस्याथै स्वतो वेत्ति प्रज्ञासातिशयोऽपि हि । न शब्दमिति शापोयं कुतः कस्यात्र दुस्तरः॥११९॥ न चायं संप्रदायोऽस्मायेकस्मै गुरुणोदितः । त्रयः शिष्याः वयं योग्या वसुनारदपर्वताः ॥१२०।। समानश्रुतिकाः शब्दाः संति लोकेन भूरिशः । गवादयः प्रयोगोपि तेषां विषयभेदतः ॥१२॥ पशुरश्मिमृगाक्षाशावज्रवाजिषु वाग्भुवोः। गोशब्दव्यक्तयो व्यक्ताः प्रयुज्यंते पृथक् पृथक्॥१२२॥ न हि चित्रगुरित्यत्र रश्मिवस्तुनि शेमुषी । न चाशीतगुरित्यत्र सास्नादिमति वर्तते ॥१२३॥ रूढया क्रियावशावाच्ये वाचां वृत्तिरवास्थिता । तामास्थरोपदेशास्तु विस्मरंति गुरूदितं ॥१२४॥ तदत्र चोदनावाक्ये रूढिशब्दार्थदूरगः । क्रियाशब्दसमानातो न जायंत इति ह्यजाः ॥१२५ ॥ ऐश्वर्य रूढिशब्दस्य विद्वद्भिर्लोकशास्त्रयोः । अजगंधोयमित्यादौ प्रयोगो न निषिध्यते ॥ १२६॥ तेन पूर्वोक्तदोषोऽपि नैवास्माकं प्रसज्यते । व्यवहारोपयोगित्वात् वाचां स्वोचितगोचरे।।१२७॥ सत्यां वित्यादिसामग्यामप्ररोहादिपर्ययाः। व्रीहयोऽजा :पदार्थोऽयं वाक्यार्थो यजनं तु तैः।।१२८॥ देवपूजा यजेरर्थस्तैरजैर्यजनं द्विजैः । नैवेद्यादिविधानेन यागः स्वर्गफलप्रदः ॥ १२९ ॥ षट्कर्मणां विधातारं पुराणपुरुषं परं । त्रातारमिंद्रमिंद्रेज्यं वेदे गीतं स्वयंभुवं ॥ १३० ॥
१ शब्दस्यार्थं कुतो वेत्ति । २ सार्थोयं ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org