________________
हरिवंशपुराणं।
२६९
सप्तदशः सर्गः। अतोऽनुष्ठानमास्थेयमजपोतनिपातनं । अजैर्यष्टव्यमित्यत्र वाक्यनिष्ठितसंशयः ॥१०६॥ आशंका च न कर्तव्या पशोरिह निपातने । दुःखं स्यादिति मंत्रेण सुखमृत्योर्न दुःखिता ॥१०७॥ मंत्राणां वाहने साक्षाद् दीक्षांतेति सुखासिका । मणिमंत्रौषधीनां हि प्रभावोऽचित्यतां गतः॥१८॥ निपातनं च कस्यात्र यत्रात्मा सूक्ष्मतां श्रितः । अबध्योऽग्निविषास्त्रायैः किं पुनमंत्रवाहनैः॥१०९।। सूर्य चक्षुर्दिशं श्रोत्रं वायु प्राणानसक्पयः । गमयंति वपुःपृथ्वीं शमितारोस्य याशिकाः ॥११०॥ स्वमंत्रणेष्टमात्रेण स्वलोके गमितः सुखं । याजकादिवदाकल्पमनल्पं पशुरश्नुते ।। १११ ॥ अभिसंधिकृतो बंधः स्वर्गाप्त्यै सोस्य नेत्यपि। न बलाद्याज्यमानस्य शिशोद्धिघृतादिभिः॥११२॥ स्वपक्षमित्युपन्यस्य विरराम स पर्वतः । नारदस्तमपाक मित्युवाच विचक्षणः ॥११३ ।।। श्रृण्वंतु मद्वचः संतः सावधानधियोऽधुना । पर्वतस्य वचः सर्व शतखंडं करोम्यहं ॥ ११४ ।। अजेरित्यादिके वाक्ये यन्मषा पर्वतोऽब्रवीत् । अजाःपशव इत्येवमस्यैषा स्वमनीषिका ॥११५॥ स्वाभिप्रायक्शाद् वेदे न शब्दार्थगतियतः । वेदाध्ययनवत्साप्तादुपदेशमुपेक्षते ॥ ११६ ॥ गुरुपूर्वक्रमादर्थात् दृश्या शब्दार्थनिश्चितिः । सान्यथा यदि जायेत जायेताध्ययन तथा॥११७॥ अथाध्ययनमन्यः स्यादन्यः स्यादर्थवेदनं । स्थिते साधारणे न्याये कामचारगतिःकुतः ॥११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org