________________
हरिवंशपुराणं ।
२६८
सप्तशः सर्गः ।
पंडितेषु यथास्थानं निविष्टेषु यथासनं । भूपं ज्ञानवयोरूपाः केचिदेवं व्यजिज्ञपन् ॥ ९३ ॥ राजन् ! वस्तुविसंवादादिमौ नारदपर्वतौ । विद्वांसावागतौ पार्श्व न्यायमार्गविदस्तव ||९४ || वैदिकार्थविचारोऽयं त्वदन्येषामगोचरः । विच्छिन्न संप्रदायानामिदानीमिह भूतले ।। ९५|| तदत्र भवतोऽध्यक्षममीषां विदुषां पुरः । लभेतां निश्वयादेतौ न्याय्यौ जयपराजयौ ॥ ९६ ॥ न्यायेनावसिते ह्यत्र वादे वेदानुसारिणां । स्यात्प्रवृत्तिरसंदिग्धा सर्वलोकोपकारिणी ॥ ९७|| इत्युर्वीद्रः स विज्ञप्तः पूर्वपक्षमदापयत् । पर्वताय सदस्यैस्तैः समर्वः पक्षमग्रहीत् ॥९८॥ अजैर्यज्ञविधिः कार्यः स्वर्गार्थिभिरिति श्रुतिः । अजाश्चात्र चतुष्पादाः प्रणीताः प्राणिनः स्फुटं । ९९ । न केवलमयं वेदे लोकेऽपि पशुवाचकः । आवृद्धादंगनाचालादजशब्दः प्रतीयते ॥ १०० ॥ नरोऽजपोतगंधोयमजायाः क्षीरमित्यपि । नाऽपनेतुमियं शक्या प्रसिद्धिस्त्रिदशैरपि ॥ १०१ ॥ सिद्धशब्दार्थसंबंधे नियते तस्य बाधने । व्यवहारविलोपः स्यादंधघूकमिदं जगत् ॥ १०२ ॥ अबाधितः पुनर्न्याये शाब्दे शब्दः प्रवर्त्तते । शास्त्रीयो लौकिकश्चात्र व्यवहारः सुगोचरे ॥ १०३ ॥ यथाग्निहोत्रं जुहुयात् स्वर्गकाम इति श्रुतौ । अग्निप्रभृतिशब्दानां प्रसिद्धार्थपरिग्रहः || ||१०४॥ तथैवात्राजशब्दस्य पशुरर्थः स्फुटः स्थितः । कुत्र यागादिशब्दार्थः पशुपातश्च निश्चितः || १०५ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org