________________
हरिवंशपुराणं ।
२६७
सप्तदशः सर्गः ।
जानताऽपि त्वया पुत्र ! तत्वा तत्त्वमशेषतः । पर्वतस्य वचः स्थाप्यं दूष्यं नारदभाषितं ॥ ८० ॥ सत्येन श्रावितेनास्या वचनं वसुना ततः । प्रतिपन्नमतः साऽपि कृतार्थेव ययौ गृहं ॥ ८१ ॥ आस्थानी समये तस्थौ दिनादौ वसुरासने । तमिंद्रमिव देवौघाः क्षत्रियौघाः सिषेविरे ॥ ८२ ॥ प्रविष्टौ च नृपास्थानीं विप्रौ पर्वतनारदौ । सर्वशास्त्रविशेषज्ञैः प्राश्निकैः परिवारितौ ।। ८३ ।। ब्राह्मणाः क्षत्रियाः वैश्याः शूद्राः साश्रमिणोऽविशन् । लौकिकाः सहजं प्रष्टुमविशेषादृते सभां ॥ ८४ ॥ तत्समानि जगुः केचिज्जन श्रोत्रसुखान्यलं । तत्र प्रोच्चारणं मृष्टं केचिद् विप्राः प्रचक्रिरे ॥८५॥ यजूंषि प्रणवारंभ घोषभाजोऽपरेऽपठन् । पदक्रमयुषो मंत्रानामनंति स्म केचन ।। ८६ ।। उदात्तस्यानुदात्तस्य स्वरस्य स्वरितस्य च । हस्वदीर्घप्लुतस्थस्य स्वरूपमुदची चरत् ।। ८७ ।। द्विजैः सामयजुर्वेदमारभ्याध्ययनोदुरैः । वधिरीकृतदिक्चक्रनिंचितं सदसोऽजिरं ||८८ || सिंहासनस्थमाशीभिर्दृष्ट्रोपरिचरं वसुं । पीठमर्दैः सहासीनौ विप्रौ नारदपर्वतौ ॥ ८९ ॥ कूर्चप्रारोहिणस्तत्र कमंडलुबृहत्फलाः । सवल्कलजटाभारास्तस्थुस्तापसपादपाः ।। ९० ॥ सदः सागरसंक्षोभ सेतुबंधेषु केषुचित् । अपक्षपातसंबंधतुला दंडेषु केषुचित् ॥ ९१ ॥ उत्पथोत्थानवादी भस्वंकुशेषु च केषुचित् । निकषोत्पलकल्पेषु केषुचित्तत्त्वमार्गणे ।। ९२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org