________________
हरिवंशपुराणं ।
सप्तदशः सर्गः। भट्टपुत्र! किमित्येवमपव्याख्यामुपाश्रितः । कुतोऽयं संप्रदायस्ते सहाध्यायिन्नुपागतः ॥६७॥ एकोपाध्यायशिष्याणां नित्यमव्यभिचारिणां । गुरुशुश्रुषतां त्यागे संप्रदायभिदा कुतः ॥६८॥ न स्मरत्यजशब्दस्य यथेहार्थो गुरूदितः । त्रिवर्षा व्रीहयो वीजा अजा इति सनातनः ॥६९।। इत्युक्तोऽपि स दुर्मोचग्राहग्रहगृहतिधीः । सोऽनादृत्य वचस्तस्य प्रतिज्ञामकरोत्पुनः ॥७०॥ किमत्र बहुनोक्तेन शृणु नारद ! वस्तुनि । पराजितोऽस्मि यद्यत्र जिहाच्छेदं करोम्यहं ॥७१॥ नारदेन ततोऽवाचि किं दुःखाग्निशिखातौ । पतंग इव दुःपक्षः पर्वत ! पतसि स्वयं ।।७२॥ पर्वतोऽपि ततोऽवोचद् यातः किं बहुजल्पितैः। सोऽस्तु नौ वसुराजस्य सभायां जल्पविस्तरः॥७३॥ नष्टस्त्वं दुष्ट इत्युक्त्वा स्वावासं नारदोऽगमत् । पर्वतोऽपि च तां वातों मातुरातमतिर्जगौ ॥७४।। सा निशम्य हतास्मीति वदंती तांतमानसा । निनिंद नंदनं मिथ्या त्वदुक्तमिति वादिनी ॥७५।। नारदस्य वचः सत्यं परमार्थनिवेदनात् । वचस्तवान्यथा पुत्र ! विपरीतपरिग्रहात् ॥७६॥ समस्तशास्त्रसंदर्भगर्भनिर्भेदशुद्धधीः । पिता ते पुत्र ! यत्प्राह तदेवाख्याति नारदः ॥७७॥ एवमुक्त्वा निशांते सा निशांतमगमद्वसोः । आदरणेक्षिता तेन पृष्टा चागमकारणं ॥७८॥ निगद्य वसवे सर्व ययाचे गुरुदक्षिणां । हस्तन्यासकृतां पूर्व स्मरयित्वा गुरोर्गृहे ।। ७९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org