________________
हरिबंशपुराणं।
२६५
सप्तदशः सर्गः। वसुना वासवेनेव नवयौवनवतिना । वनितेव विनीतत्वं नीता नीतिविदावनिः ॥५४॥ नभःस्फटिकमूर्द्धस्थसिंहासनमाधिष्ठितं । नभस्थमेव भूपास्तं दत्तास्थानममंसत ॥ ५५ ॥ भूभौ कीर्तिरभूत्तस्य महिम्ना धर्मजन्मना । अस्योपरिचरस्यात्र वसोरन्वर्थतायुषः॥५६॥ इक्ष्वाकुवंशजा जाया कुरुवशाद्भवा परा । दशपुत्रास्तयोजोताः वसोवेसुसमाः क्रमात् ।।५७॥ बृहद्वसुरिति ज्ञेयः पूर्वश्चित्रवसुः परः । वासवश्वार्कनामा च पंचमश्च महावसुः ॥ ५८ ॥ विश्वावसू रविः सूर्यः सुवसुश्च वृहद्ध्वजाः । इत्यमी वसुराजस्य सुताः सुविजिगीषवः ॥५९॥ सुतैर्दशभिरन्योऽन्यप्रीतिबद्धमनारथैः । इंद्रियार्थैरिवोपेतः पार्थिवः सुखमन्वभूत् ॥ ६० ॥ एकदा नारद'छात्रैर्बहुमिछातिभिर्वृतः । गुरुवद्दुरुपुत्रेच्छः पर्वतं द्रष्टुमागतः ॥ ६१ ॥ कृतेऽभिवादने तेन कृतप्रत्यभिवादनः । सोभिवाद्य गुरोः पत्नी गुरुसंकथया स्थितः ॥ ६२ ॥ अथ व्याख्यामसौ कुर्वन् वेदार्थस्यापि गर्वितः । पर्वतः सर्वत छात्रैर्वृतो नारदसन्निधौ ॥६३॥ अजैर्यष्टव्यमित्यत्र वेदवाक्ये विसंशयं । अजशब्दः किलाम्नातः पश्वर्थस्याभिधायकः ॥६४ ॥ तैरजैः खलु यष्टव्यं स्वर्गकामैरिह द्विजैः । पदवाक्यपुराणार्थपरमार्थविशारदः ॥६५।। प्रतिबंधमिहांधस्य तस्य चक्रे स नारदः । युक्तागमबलालोकध्वस्ताज्ञानतमस्तरः ॥६६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org