________________
हरिवंशपुराणं।
सप्तदशः सर्गः वेदाध्ययनसक्तानां मध्येऽमीषामधोगतिं । गंतारौ द्वौ नरौ पापाद् द्वौ पुण्यादूर्ध्वगामिनौ ॥४१॥ इत्युक्त्वा मुनिरन्यस्मै साधवेऽवधिलोचनः । करुणावान् गतः कापि ज्ञातसंसारसंस्थितिः॥४२॥ श्रुत्वा क्षीरकदंबोऽपि वचनं शंकिताशयः । विसृज्य सदनं शिष्यानपराद्धेऽन्यतो गतः ॥४३॥ अपश्यंती पति शिष्यान् पप्रच्छ स्वस्तिमत्यसौ । उपाध्यायो गतः पुत्राः कुतो ब्रूतेति शंकिता ॥४४॥ तेऽवुवन्नहमेमीति वयं तेन विसर्जिताः । आयात्येवानुमार्गे नो माताभूस्त्वमुन्मनाः ॥४५॥ इति तेषां वचः श्रुत्वा तस्थौ स्वस्तिमती दिवा । रात्रावपि यदा चाऽसौ गृहं नागतवाँस्तदा ॥४६॥ गता सा शोकिनी बुद्ध्वा भर्नुराकूतमाकुला । ध्रुवं प्रबजितो विप्र इत्यरोदीच्चिरं निशि ॥४७॥ तमन्वेष्टुं प्रभाते तो गतौ पर्वतनारदौ । वनांते पश्यतां श्रांतौ दिनैः कतिपयैरपि ॥ ४८ ॥ स निषण्णमधीयानं निग्रंथं गुरुसन्निधौ । पितरं पर्वतो दृष्ट्रा दूरान्निववृतेऽधृतिः ॥४९ ॥ मात्रे निवेद्य वृत्तांत तया दुःखितचित्तया । कृत्वा दुःखं विशोकाऽसौ तिष्ठति स्म यथासुखं|॥५०॥ नारदस्तु विनीतात्मा गुरोः कृत्वा प्रदक्षिणं । प्रणम्याणुव्रती भूत्वा संभाष्य गृहमागतः ॥५१॥ आशास्य शोकसंतप्तां नत्वा पर्वतमातरं । जगाम निजधामाऽसौ नारदोतिविशारदः ।।५२ ॥ वसोरपि पिता राज्यं वसौ विन्यस्य विस्तृतं । संसारसुखनिर्विण्णः प्रविवेश तपोवनं ॥५३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org