________________
हरिवंशपुराणं ।
२६३
सप्तदशः सर्गः। संजयश्चरमस्यासीत् तनयो नयवित्तथा । पौलोमस्य महीदत्तस्तपस्थौ जनकौ च तौ ॥ २८ ॥ महीदत्तेन नगरं कृतं कल्पपुराख्यया । सोरिष्टनेमिमत्स्याख्यौ तनयावुदपादयत् ॥ २९ ॥ मत्स्यो भद्रपुर जित्वा सेनया चतुरंगया । तथा हास्तिनपुरं प्रीतस्सोऽध्यतिष्ठत्प्रतापवान्॥३०॥ तस्य पुत्राः शतं याताः शतमन्युसमाः क्रमात् । अयोधनादयो ज्येष्ठे राज्यं न्यस्य स दीक्षितः ।।३१।। अयोधनसुतो मूलः शालस्तस्य सुतोऽभवत् । सूर्यस्तस्याभवत्सूनुस्तेन शुभ्रपुरं कृतं ॥३२॥ तस्यासीत्वमरस्तेन वज्राख्यं पुरमाहितं । देवदत्तस्ततो जातो देवेंद्रसमविक्रमःः ॥३३॥ मिथिलानाथमुत्पाद्य विदेहानामभूद्विभुः । हरिषेणस्ततो जज्ञे नभसेनस्तु तत्सुतः ॥३४॥ ततः शंख इति ख्यातस्ततो भद्र इतीरितः । अभिचंद्रस्ततश्चाभूदभिभूतरिपुद्युतिः ॥३५॥ विध्यपृष्ठेऽभिचंद्रेण चेदिराष्ट्रमधिष्ठितं । शुक्तिमत्यास्तटेऽधायि नाम्ना शुक्तिमती पुरी ॥३६॥ उग्रवंशप्रसूतायां वसुमत्यामभूद्वसुः । अभिचंद्राद् यथार्टात्मा चंद्रकांतमहामणिः ॥३७॥ नाम्ना क्षीरकदंबोऽभूत्तत्र वेदाथेविद्विजः । तस्य स्वस्तिमती पत्नी पर्वतस्तनयस्तयोः ॥३८॥ अध्यापितास्त्रयस्तेन वसुपर्वतनारदाः । सरहस्यानि शास्त्राणि गुरुणा धिषणावता ॥३९॥ आरण्यकमसौ वेदमरण्येऽध्यापयन् सुतान् । आकर्णयद् गिरं व्योनि मुनेराकाशगामिनः ॥४०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org