SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । २६२ सप्तदशः सर्गः। इला देवी ततो रुष्टा पत्युः पुत्रमभेदयत् । तावद्भार्यादयो यावन्मर्यादासंस्थितः प्रभुः ॥१६॥ इला चैलेयमावृत्ता महासामंतसंवृता । प्रत्यवस्थानमकरोदुगदेशमुपाश्रिता ॥ १७ ॥ त्रिविष्टपपुराकारं संनिविष्ट पुरं तया । इलया वर्धमानं यदिलावर्धनसंज्ञया ॥ १८ ॥ एलेयः स्थापितो राजा रजे तत्र प्रजावृतः । वीयेधेयनयाधारो हरिवंशविशेषकः ॥ १९ ॥ पार्थिवेन सता तेन तामलिप्तिप्रसिद्धिकां । निवेशितं पुरं कांतमंगदेशनिवासिना ॥ २० ॥ जिगीषता परान् देशान् नर्मदातटमीयुषा । मह्यां माहिष्मती ख्याता नगरी विनिवेशिता ॥२१॥ तत्र स्थितश्चिरं राज्यं कृत्वा प्रणतपार्थिवं । पुत्रं कुणिमनामानं संस्थाप्य तपसे ययौ ॥ २२ ॥ कुणमश्च विदर्भेषु विजिगीषुर्द्विषं तपः । कुंडिनाख्यं पुरं चके वरदायास्तटे वरे ॥ २३ ॥ कुणिमः क्षणिकं मत्वा जीवितं निजवैभवं । पुलोमाख्ये सुते न्यस्य तपोवनमयात्स्वयं ॥ २४ ॥ पुलोमपुरमेतेन विनिवेशितमाशिना । श्रियं न्यस्य तपस्यागात्पौलोमचरमाख्ययोः ॥ २५ ॥ जगत्प्रभावसंभारी तावखंडितमंडलौ । सूर्याचंद्रमसौ नित्यं विजिगीषू प्रजिग्यतुः ॥ २६ ॥ ताभ्यामिंद्रपुरं चक्रे रेवायाः सरितस्तटे । जयंतीवनवास्यौ द्वे चरमेण पुरौ कृते ॥२७॥ १ पतिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy