________________
हरिवंशपुराणं ।
२६१
सप्तदशः सर्गः ।
ऐलेयाख्यामलानां स दक्षः पुत्रमजीजनत् । मनोहरीं च तनयामर्णवोऽपि यथा श्रियं ॥ ३ ॥ ववृधेनुकुमारं च कुमारी नेत्रहारिणी । साऽनुचंद्रं यथा कांतिः कलागुणविशेषिणी ॥ ४ ॥ यौवनेन कृता श्लेषा कुशमध्यावभासते । स्तनभारेण गुरुणा जघनेन च भारिणा ।। ५ ।। साधने सति रूपात्रे तस्या धीरमनोभिदि । मनोभवोऽत्यजत्स्वेषु कुसुमात्रेषु गौरवं ॥ ६ ॥ तद्रूपात्रविमोक्षेण मनोभूरकरोद् भृशं । दक्षस्यापि मनोभेदमन्येषां नु किमुच्यतां ॥ ७ ॥ कन्यया हतचित स ततो दक्षः प्रजापतिः । आहूय छद्मना सद्म पपच्छ प्रणताः प्रजाः ॥ ८ ॥ पृष्टा वदत यूयं मे सज्जना जगति स्थिति । अविरुद्धं विचहि विश्वे विदितवृत्तयः ॥ ९ ॥ वस्तु भुवनेऽनयै हस्त्यश्ववनितादिकं । प्रजानुचितमेतस्य राजा विभुरहो नवा ॥ केचिदुर्जनास्तत्र विचार्य चिरमात्मनि । यत्प्रजानुचितं देव ! तत्प्रजापतये हितं ।। ११ ।। यथा नदीसहस्राणां सद्रत्नानां च सागरः । आकरोऽनर्घरत्नानां तथैवात्र प्रजापतिः || १२ || तद् यत्तव स्थितं चित्ते समस्ते वसुधातले । स्वाकरेषु समुत्पन्नं तद्रर्भ क्रियतां करे ॥ १३ ॥ एवं दक्षः प्रजावाक्यमाकर्ण्य विपरीतधीः । प्रजानुमतिकारित्वं प्रकाश्य विससर्ज ताः ॥ १४ ॥ ततः स दुहितुस्तस्या स्वयमेवाग्रहीत्करं । काम ग्रहगृहीतस्य का मर्यादाक्रमोऽपि कः ॥ १५ ॥
१० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org