________________
हरिवंशपुराणं ।
सप्तदशः सर्गः। स्थित्वाऽपराहसमये वरपुष्ययोगे सिद्धे जिने ननु महं विदधुः सुरेद्राः ॥ ७६ ॥ षडर्षलक्षपरिमाणमिनस्य तस्य प्रावर्त्तत प्रविततं भुवि धर्मतीर्थे ।
विद्यावबोधबुधितार्थमुनिप्रभावं देवागमाविरतिवर्द्धितलोकहर्ष ॥ ७७ ॥ विंशस्य तस्य चरितस्य जिनस्य लोके कल्याणपंचकविभूति विभावयन् यः।
भक्त्या श्रृणोति पठति स्मरतीदमस्मिन् भव्यो जनो भजति सिद्धिसुखं स शीघ्र ॥७८॥ एवं वसंततिलकप्रचुरप्रसूनमालामिमां समधिरोप्य विनूतवृत्तः।
विघ्नान् विधृय विदिधातु समाधिबोधि/रो जिनो जितभवो मुनिसुव्रतो नः ॥ ७९ ॥ इत्यरिष्टनेमिपुराणसंग्रहे हरिवंशे जिमसेनाचार्यकृतो मुनिसुव्रतनाथपंचकल्याणवर्णनो नाम षोडशः सर्गः।
सप्तदशः सर्गः। बभूव हरिवंशानां प्रभुर्वश्यवसुंधरः । अरिंपड़गजिन् मार्गस्त्रिधर्मस्य स सुत्रतः ॥ १ ॥ स दक्षं दक्षनामानं पुत्रं कृत्वा निजे पदे । दीक्षितः स्वपितुस्तीर्थे प्राप मोक्षं तपोक्लान् ॥ २॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org