________________
२५९
हरिवंशपुराणं।
षोडशः सर्गः। अष्टौ च विंशतिरिनस्य जिनेंद्रचर्याः क्रोडीकृताखिलचतुर्दशपूर्वशास्त्राः ।।
त्रिंशत्सहस्रगणना परिषद् यतीनां नानागुणैरजनि सप्तविधः स संघः ॥ ७० ॥ स्युस्तत्र पंचशतपूर्वधरा यतीशा एकादिविंशतिसहस्रभिदाश्च शिक्षाः । __अष्टादशेव गदितानि शतानि तेषु प्रत्येकमस्य मुनयोऽवधिकेवलाप्ताः॥७१॥ द्वाविंशतिर्यतिशतानि तु वैक्रियाख्यास्तान्येव पंचदश ते विपुलास्तु मत्या।
स्युद्वादशैव हि शतानि विवांतवैराः सद्वादिनो मुनिपतेः प्रथिताःसभायां ।। ७२ ॥ पंचाशदात्मकसहस्रभिदास्तदायर्याः शिक्षागुणवतधरा गृहिणोऽपि लक्षाः । __सम्यक्त्वपूतमनसो वनितास्त्रिलक्षाः सभ्योडुभिः परिवृतश्च बभौ जिनेंदुः॥७३ ॥ त्रिंशद्गुणप्रथितवर्षसहस्रजीवी प्राकू पंचसप्ततिशताब्दकुमारकालः। राज्येऽपि पंचदशवर्षसहस्रभागी सत्संयमेन विजहार स शेषकालं ॥ ७४ ॥ अंते स संमदविधायिवनांतकांतं सम्मेदशैलमधिरुह्य निरस्तबंध । ___बंधांतकृन्मुनिसहस्रयुतो जगाम मोक्षं महामुनिपतिर्मुनिसुव्रतेशः ॥७५ ॥ माधत्रयोदशतिथौ सितपक्षभाजि मासोपसंहृतविहारविसृष्टदेहे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org