________________
हरिवंश पुराणं ।
२५७
भूभृत्सहस्रपरिवारभूदेष बचे दीक्षां समक्षमखिलस्य जगत्त्रयस्य । तन्मूर्धजानधिनिधाय निजोत्तमांगे शक्रश्चकार विधिना सुपयः पयोधौ ॥ ५७ ॥ कृत्वामराश्च जिननिष्क्रमणं तृतीयकल्याणपूजनममी जगुरीश्वरोऽपि । ज्ञानैश्चतुर्भिरनुगैश्च सहस्रसंख्यैस्तैः पार्थिवैर्दिनमणिः किरणैरिवाभात् ॥ ५८ ॥ षष्ठोपवासिनि परेद्युरिनेऽवतीर्णे भिक्षाविधिप्रकटनाय कुशाग्रपुर्यां ।
भिक्षां ददौ वृषभदत्त इति प्रसिद्धः सत्पात्रशंसविधिना मुनिसुव्रताय ॥ ५९ ॥ स्वाधीनमप्रतिहतं स्थितिभुक्तियुक्तं सत्पाणिपात्रमधिपेन विधानपूर्वं ।
प्रावर्त्ति वर्तन सुवर्त्तनसाधुयोग्यं तीर्थे निजे स्थितिविदा जिनभास्करेण ।। ६० ।। चित्रं तदा हि परमान्नमृषद्रपाणी शुद्धान्वितेन ददता परिनिष्ठशेषं । शेषैरशेषपतिभिश्च सहस्रसंख्यैर्वो भुज्यमानमपरैश्च ययौ न निष्ठां ॥ ६१ ॥ नेदुस्ततस्त्रिदिशदुंदुभयो निनादाः साधुस्वनः सकलमंचरमाततान ।
सुरभिद्भुत पुष्पवृष्टिव्यम्नः पपात महती वसुनश्च धारा ॥ ६२ ॥ आश्चर्य पंचकमिदं चिरमंबरस्था देवा विकृत्य परमं परदुर्लभं ते ।
१७
षोडशः सर्गः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org