________________
हरिवंशपुराणं ।
२५६
षोडशः सर्गः
आगत्य मौलिमिलितांजलयः किरंतः पुष्पांजलीनिति जिनं नुनुवुर्नतः ॥ ५० ॥ वर्धस्व नंद जय जीव जिनेंद्रचंद्र ! विज्ञान रश्मिहत मोहतमोवितान ।
निर्बंधबंधुतम ! भव्य कुमुद्वतीनां तीर्थस्य विंशतितमस्य हितस्य कर्ता ॥ ५१ ॥ त्वं वर्त्तय त्रिभुवनेश्वर ! धर्मतीर्थे यत्रायमुग्रभवदुःखशिखिप्रतप्तः ।
स्नात्वा जनस्त्यजति मोहमलं समस्तमह्नाय याति च शिवं शिवलोकमग्रयं ॥ ५२ ॥ चारित्रमोहपरमोपशमात्प्रबुद्धं लौकांतिका इति जिनं प्रतिबोधयंतः ।
नान्यज्जगुर्निजनियोगनिवेदनेषु युक्ता हि यांति न पुनः पुनरुक्तदोषं ॥ ५३ ॥ सौधर्म पूर्वविधाश्च चतुर्णिकाया नानाविमाननिवहस्थगितांतरिक्षाः ।
संप्राप्य नाथमभिषिच्य सुगंधितोयैस्तं भूषितं विदधुरद्भुतभूषणाद्यैः ॥ ५४ ॥ पुत्रं च सुव्रतमसौ मुनिसुव्रतेशः प्राभावतेयमभिराज्यपदेऽभ्यर्षिचत् ।
श्वेतातपत्रसितचामर विष्टराणि सोडलंचकार हरिवंशनभः शशांकः ।। ५५ ।। भूपोद्धृतां नभसि देवगणैरुदूढामारुढवान् सुरुचिरां शिविकां विचित्रां । यातो वनं विदितकार्त्तिक शुक्लपक्षे षष्ठोपवासकृदुपाश्रितसप्तमीकः ॥ ५६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org