________________
हरिवंशपुराणं।
२५५
षोडशः सर्गः। चित्रं न तद् यदतिम जति वज्रकायपुनागसंततिरितीदमतीव चित्रं ।। ४४ ॥ यः स्वर्गसौख्यजलधीनतिदीर्घकालं पीत्वाऽपि तृप्तिमगमद् बहुशो न जीवः । __ सौहित्यमल्पदिवसैः कथमस्य कुर्यात् भूलोकसौख्यमणुलोलतृणोदबिंदुः ॥ ४५ ॥ अग्नेरिवेंधनमहानिचयैर्न तृप्तिरंभोनिधेरिव सदापि नदीसहस्रैः।।
जीवस्य तृप्तिरिह नास्ति तथाभिषेकैः सांसारिकैरुपचितैरपि कामभोगैः ॥ ४६॥ भोगाभिलाषविषमाग्निशिखाकलापसंवृद्धये हि विषयधनराशिरुच्चैः ।
तस्यैव तु प्रशमहेतुरिहैव तस्मात् व्यावृत्तिरिंद्रियजिति स्थिरवारिधारा ॥ ४७ ॥ हित्वा ततो विषयसौख्यमसारभूतं शीघ्रं यतेऽहमिह मोक्षपथे सनाथे ।
स्वार्थ प्रसाध्य परमं प्रथमं परार्थ तीर्थप्रवर्त्तनमथ प्रथयामि तथ्यं ॥४८॥ इत्थं मतिश्रुतयुतावधिबोधनेत्रे ज्ञाने स्वयंभुवि तदा स्वयमेव बुद्धे । __ आकंपितासनमभूदमरेंद्रद्वंदं सर्वार्थसिद्धिसुरपर्यवसानमाशु ॥ ४९ ।। लोकांतिका ललितकुंडलहारशोभाः सारस्वतप्रभृतयो निभृताः सिताभाः। १" लवलोल" इति क पुस्तके।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org