________________
हरिवंश पुराणं ।
२५४
पश्यन्नपि क्षणविभंगुर मंगभाजामंगादिकं स्वयममृत्युभयो ऽय मंगी । मोहांधकारपिहितागमदृष्टिरिष्टं मार्ग विहाय विषयामिषगर्तमेति ॥ ३८ ॥ प्रत्यंगमंगजमतंगजसंगतांगः स्वांगैः स्पृशन् प्रियबधूजन गात्रयष्टीः । धिक् स्पर्शसौख्यविनिमीलितनेत्रभागो मातंगवद् विषमबंधमियर्त्ति मर्त्यः || ३९ ॥ आहारमिष्टमिह षट्रसभेदभिन्नमाहारयन् बहुविधं स्पृहयापदृष्टिः । जिहावशी दलितशंकु विलग्नमांसपेशीप्रियश्चपलमीन इवैति बंधं ॥ ४० ॥ घ्राणेंद्रियप्रिय सुगंधिसुगंधसंधो जंगाबलादिव विलंघिततृप्तिमार्गः ।
दुष्पाकमतषिणो विषपुष्पगंधमाघ्राय शीघ्रमघमेति यथा षडंघ्रिः ॥ ४१ ॥ चित्तद्रवीकरणदक्षकटाक्षपातसस्मेरवक्त्रवनितांगनिविष्टदृष्टिः ।
रूपप्रियोऽपि लभते परितापमुग्रं प्राप्तः पतंग इव दीपशिखा प्रपातं ।। ४२ ।। स्वेष्टांगना मुखरनूपुरमेखला दिनानाविभूषणरवैः प्रियभाषणैश्च ।
संगीतकैश्च मधुरैर्हृतधीरधीरः श्रोत्रंद्रियैर्मृग इव म्रियते मनुष्यः ॥ ४३ ॥ संक्लिश्यते विषयभोगकलंकपके यत्पुंगवां ततिरिहाल्पबला निमग्ना ।
Jain Education International
षोडशः सर्गः ।
For Private & Personal Use Only
www.jainelibrary.org