________________
हरिवंशपुराणं ।
२५३
षोडशः सर्गः। ज्वालोपनीतमिव तं नवनीतपिंडमालोक्य लोक विभुरिस्थमचिंतयत्सः ॥ ३१ ॥ शीर्णः शरज्जलधरः कथमेष शीघ्रमायुः शरीर वपुषां विशरारुतायाः ।
लोकस्य विस्मरणशीलविशीर्णबुद्धेराशूपदेशमिव विश्वगतं वितन्वन ॥ ३२॥ अल्पप्रमाणपरमाणुसमूहराशि-रासंचितः स परिणामवशादसारः । __कालप्रभंजनजवावनिपातमात्रादायुधनः प्रलयमत्र लघु प्रयाति ॥ ३३ ॥ वज्रात्मसंहननसंहृतसंधिबंधसत्संनिवेशवनरम्यशरीरमेघः।। _मेघीभवत्यसुभृतामसमर्थ एष वायुप्रकोपभरभग्नसमस्तगात्रः ॥ ३४ ॥ सौभाग्यरूपनवयौवनभूषणस्य भूलारुचित्तनयनामृतवर्षणस्य ।
देहांबुदस्य दिनकृतप्रतिघातिनी स्याच्छायावयःपरिणतिद्वतवात्ययाऽस्य ॥ ३५ ॥ शौर्यप्रभावसुवशीकृतसागरांतभूराजसिंहचिररक्षितभूमिभागाः।
सौराज्यभोगगिरयोऽपि विशीर्णशृंगाश्चूणीभवंति समयांतरवज्रपातैः ॥ ३६ ॥ नेत्रं मनश्च भवदत्र कलत्रमिष्टं प्राणैः समं समसुखासुखमित्रपुत्रं ।
व्येतीह पत्रमिव शुष्कमदृष्टवाताद्देवोऽप्युपैति हि भवे प्रियविप्रयोगं ॥ ३७॥
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only