________________
हरिवंशपुराणं ।
२५२
ऊर्मिभ्रुवश्चटुलनेत्रसफर्यपांगाः मत्तद्विरेफकलहंसनिनादरम्याः । फुल्लारविंदमकरंदरजोंगरागा रागं रतो विदधुरस्य बधूसरस्यः ॥ २५ ॥ नम्रो भृशं फलभरेण सुगंधिशालिः शालेयजा च विकचात्पलजातिरुत्था । सौभाग्य गंधवशवर्त्तितयांगमंगमासाद्य जिघ्रतुरिवास्यमजस्रमेतौ ॥ २६ ॥ धूली कदंब मदधूलिंगतांगरागाधाराः कदंबमधुनो विधुराः स्मरतः ।
माद्यद्विपेंद्रमदगंधिषु षट्पदौघाः सप्तच्छदेषु विततेषु रतिं वितेने ।। २७ ।। काले स तत्र मुनिसुव्रतराजहंसः कैलाशशैलसदृशे स्थितवान् सुसौधे ।
लीलावधूतरतिविभ्रमराजहंसी : व्रीडाभयातिरुचिराभरणाः प्रपश्यन् ॥ २८ ॥ पश्यन् दिशः सकलशारदसस्यशोभाः मेघं ददर्श शशिशुभ्रमदभ्रशोभं ।
व्योमार्णदारमण तृष्णमिवावतीर्ण - मैरावणं भ्रमणविभ्रमवारणेंद्रं ॥ २९ ॥ निःशेषनिर्गलितनीरनिजोत्तरीयमाशात्रधूविपुलपीनपयोधरं सः । प्रोत्तुंगपांडुपरिणाहिनमंत्ररस्य भूषायमाणमवलोक्य तमाप तोषं ॥ ३० ॥ पश्चात्प्रचंडतर मारुतवेगघातनिर्मूलितावयवमाशु विलीयमानं ।
Jain Education International
For Private & Personal Use Only
षोडशः सर्गः ।
www.jainelibrary.org