________________
२५१
हरिवंशपुराणे ।
षोडशः सर्गः। ज्ञानत्रयं सहजनेत्रमुदारनेत्रो विभ्रज्जिनः सुरकुमारकसेव्यमानः।
कालानुरूपकृतसर्वकुबेरयोगक्षेमो ययावपघनस्य गुणस्य वृद्धिं ॥ १९ ॥ रम्यांगनाश्च कुलशैलसमुद्भवास्तमायतमध्यसतताभ्युदया युवानं ।
लावण्यवाहिनमवाप्य विवाहपूर्व नद्यः समुद्रमिव संवरयांबभूवुः ॥२०॥ राज्यस्थितः स हरिवंशमरीचिमाली राजा प्रजाकमलिनीहितलोकपालः ।
राजाधिराजसुरसेवितपादपो भेजे चिरं विषयसौख्यमखंडिताज्ञः ॥ २१ ॥ प्राप्ता कदाचिदथ तं शरदबुजाक्षा बंधूकबंधुरतयाधरपल्लवश्रीः ।। ___ काशाच्छचामरकरा विशदंबुवस्त्रा वर्षावधूव्यति गमे स्ववधरिवैका ॥ २२ ॥ अंतर्दधे धवलगोकुलघोषघोर्मेघावली लघुविधृतरवेव धूम्रा।
मेघावरोधपरिमुक्तदिशासु सूर्यः पादप्रसारणसुखं श्रितवांश्चिरेण ॥ २३ ॥ रोधोनितंबगलदंबुविचित्रवस्त्राः सावर्त्तनाभिसुभगाश्चलमीननेत्राः ।
फेनावलीवलयवीचिविलासबाहाः क्रीडासु जहुरबलासरितोऽस्य चित्तं ॥ २४ ॥ १ ' शरदंबुजास्या । इति ख पुस्तके ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org