________________
हरिवंशपुराणं ।
२४९
मी क्षणा त्रिवलिभंगतरंगिणी सा स्त्रीवाहिनी समगमद् वरवाहिनीश || ६ || पीनस्तनस्तवकभारनतांगयष्टिराताम्रपल्लवकरा मृदुबाहुशाखा ।
संचारिणी मणिविभूषणमृन्महीशकल्पद्रुमं युवतिकल्पलता ननाम ॥ ७ ॥ आसनियाssसनवरे स तया समीपे स्वप्नावलीफलमिलाधिपतिः प्रपृष्टः ।
तस्यै जगौ जिनपतेर्जगतां त्रयस्य भर्तुर्गुरू लघु भवाव इति प्रहृष्टः ॥ ८ ॥ स्पृष्टा नृपोत्किरणमालिवचोमयूखैः सा तोषपोषभृशहष्टतनूरुहाऽभात् ।
णं निकृष्टमपि तीर्थकुतो गुरुत्वात् मत्वा प्रशस्तमिति विस्तृतपद्मिनी || ९ || आरात्सहस्रपद पूर्वपदादुदारा - दारान्नमत्सुरसहस्रगणोऽवतीर्य ।
मासानुवास नवगर्भगृहे प्रशुद्धे सार्धाष्टमीह गणनान्मुनिसुव्रतो ऽस्याः ॥ १० ॥ आनीलचूचुकविषांडुपयोधरश्रीः सा वज्रसंहतिसगर्भतया स्फुरंती | विद्युत्प्रभाभरणदृंहितभा बभासे वर्षा शरत्समयसन्नियुता यथा द्यौः ॥ ११ ॥ सासू सूतिसमयेंद्रमहे च माघ- पक्षे सिते जनमनोनयनोत्सवं तं । १ शीघ्रं ।
Jain Education International
षोडशः सर्गः ।
For Private & Personal Use Only
www.jainelibrary.org