________________
हरिवंशपुराणं ।
२४८
षोडशः सर्गः ।
श्रीशीतलादिह परेषु जिनेषु पश्चात् तीर्थं प्रवर्त्य भरते जगतां हितार्थं । कालक्रमेण नवसु श्रितवत्सु मोक्षं स्वर्गादिष्यति जिनाधिपतौ च विंशे ॥ १ ॥ शक्राज्ञया प्रतिदिनं वसुधारयोच्चैरापूरयत्यवनिपस्य गृहं कुबेरः ।
पद्मावती मृदुतले शयने शयाना स्वमान् ददर्श दश षट् च निशावसाने ॥ २ ॥ नागोक्षसिंह कमलाकुसुमस्त्रागंदु - बालार्कमत्स्य कलशाब्जसरी बुराशीन् ।
षोडशः सर्गः ।
सिंहासनामरविमानफणींद्र गेह - सद्रत्नराशिशिखिनो जिनसूरपश्यत् || ३ || सोपासिता नवनवत्युपमान्यतीत - दिव्यप्रभावदिगभिख्यकुमारिकाभिः ।
शय्यातले सकुसुमे शुशुभे विबुद्धा लेखा यथा नभसि तारकिता हिमांशोः || ४॥ उन्निद्र पद्मनयनानन पाणिपादा सा रागिणी दिनमुखेऽधिपतिं सुमित्रं । भद्रासनोदयगतं स्थलपद्मिनीव पद्मावती समुदियाय सपुंडरीका || ५ || चित्रांबरांबुरमनाग्रणितातिमंजु - मंजीरसिंजित विहंगनिनादरम्या |
१ तीर्थकरजननी । २ सुमित्राख्यं नृपं, सूर्य च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org