________________
हरिवंशपुराणं ।
२४७
पंचदशः सर्गः।
जगति यस्य सुनाम परिग्रहाच्चरति भो हरिवंश इति श्रुतिः ॥ ५८ ॥ अभवदस्य महागिरिरंगजो हिमगिरिस्तनयः सुनयस्ततः।।
वसुगिरिश्च ततो गिरिरित्यमी त्रिदिवमोक्षयुजस्तु यथायथं ॥ ५९ ॥ शतमखप्रतिमाः शतशस्ततः क्षितिभृतो हरिवंशविशेषकाः।
क्रमधृताधिकराज्यतपोधुराः शिवपदं ययुरत्र दिवं परे ॥ ६० ॥ व्यपगतेषु नृपेषु बहुष्वतः क्षितिपतिर्मगधाधिपतिः क्रमात् ।
इह बभूव हरिप्रभवान्वये कुशलधामकुशाग्रपुराधिपः ॥ ६१ ॥ स हि सुमित्र इति श्रुतनामकः श्रुतविशेषविभूषितपौरुषः ।
अनुशसास भुवं सह पाया श्रितसुखः प्रियया जिनभक्तया ।। ६२ ॥ इति “अरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यकृतो हरिवंशोत्पत्तिवर्णनो नाम पंचदशः सर्गः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org