________________
हरिवंशपुराणं।
२४६
पंचदेशः सर्गः इति निगद्य तदा विबुधः खगौ चकितकंपितचित्तशरीरको । ___ गरुडवत्परिगृह्य खमुद्ययौ भरतवर्षवरं प्रतिदक्षिणं ॥ ५२ ॥ मृतवतामृतदीधितिकीर्तिना रहितयाऽनृपया वरचंपया।
स तमयोजयदत्र महीपतिं प्रणतराजकमैच दिवं सुरः ॥ ५३॥ त्रिदशखंडितविद्यकदंपती क्षपितपक्षशकुंतवदक्षमौ ।
वियति पर्यटितुं त्रुटितेच्छको सह समीयतुरत्र धृति क्षितौ ॥ ५४॥ नवतिकार्मुकपूर्वसुलक्षितस्थितिमतो दशमस्य मुनेरिदं । ___ समधिकाब्धिशतोज्झितकोटिके वहति तीर्थपथे कथि वृत्तकं ॥ ५५ ।। स बुभुजे भुजदंडवशीकृतप्रणतपार्थिवमानितशासनः।
विषयसौख्मखंडितरागया सुचिरकालमतृप्तमतिस्तया ॥ ५६ ॥ अथ तयोस्तनयो हरिरित्यभूद्धरिरिव प्रथितः पृथिवीपतिः । __समनुभूय सुतश्रियमूर्जितां स्वचरितोचितलोकमितौ च तौ ॥ ५७ ॥ हरिरयं प्रभवः प्रथमोऽभवत्सुयशसो हरिवंशकुलोद्तेः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org