________________
हरिवंशपुराणं ।
२४५
Jain Education International
इह भवेऽपि तथैव सहेक्ष्यते रतिमितः स परां सुमुखः खलः ।। ४५ ।। कृतवतोपकृतिं विषमां द्विषो द्विगुणिता यदि सा न विधीयते ।
प्रभुता किमनर्थकया प्रभोः प्रभवतोऽपि निरुद्यमचेतसः || ४६ ॥ इति विचित्य रुषा कलुषीकृतः प्रतिविधानकृतौ कृतनिश्चयः ।
भुवमवातरदाशु स वैरधीस्त्रिदिवतो दिवसाधिपभास्वरः ॥ ४७ ॥ स खलु खेचरराजसुतं सुरः सुमुखराजचरं खचरीसखं ।
प्रविलसंतमवाप यदृच्छया सुहरिवर्षगतं हरिविभ्रमं ॥ ४८ ॥ तदवलोक्य सुरो मिथुनं वरं प्रथमयौवननिर्जर विग्रहं ।
अकृत खंडितविद्यमखंडया सहजखंडतया सुरमायया ।। ४९ ।। परबधूप्रियवीरकवैरिणं स्मरसि किं सुमुख प्रमुखाधुना ।
त्वमपि किं सुखले वनमालिके ! स्खलितशीलभरे ! परजन्मनि ॥ ५० ॥ अहमसौ तपसा सुरतामितः खचरतां मुनिदानफलाद् युवां । अरतिमेव ममारतिदायिनोः क्षणितविद्यकयोः प्रददामि वां ॥ ५१ ॥
पंचदशः सर्गः ।
For Private & Personal Use Only
www.jainelibrary.org