________________
हरिवंशपुराणं ।
२४४
निशि सदा विगस्य नियोगिनः सुसरसोऽपि यथा भुवि योगिनः ॥ ३९ ॥ विनिचिराद्विरहव्यथां रतिरहस्यगृहाश्रममाश्रमं ।
जिन निदेशितमाश्रितवान् वशी स हि परं शरणं शरणार्थिनां ॥ ४० ॥ अतिवितप्य तपस्तनुशोषणं विषयलुब्धमनोभवपेषणं ।
अगमदेष सुखांबुधिपोषणं प्रथमकल्पमथामरतोषणं ॥ ४१ ॥ सुरबधूनिवहादिपरिग्रहः सकलभूषणभूषित विग्रहः ।
सुरसुखामृतसागरसंगतः सममतिष्ठत भावरसं गतः ।। ४२ ।। दिवि कदाचिदसौ वरकामिनीनिवहमध्यगतोऽवधिगोचरं ।
समनयद्वनित वनमालिकां परिचितः प्रणयः खलु दुस्त्यजः ।। ४३ ।। सुमुखराजकृतं च पराभवं स परिचिंत्य सुरस्तदनंतरं । विषमितोन्मिषितावधि चक्षुषः मिथुनमैक्षत खेचरयोस्तयोः ॥ ४४ ॥ प्रभुता प्रविधाय पराभवं परभवे हतवांश्च मम प्रियां ।
१
सोऽपि ।
Jain Education International
पंचदशः सर्गः ।
For Private & Personal Use Only
www.jainelibrary.org